________________
॥ ३ ॥ एतेषां जीवानां यो वधं मनसा वचसा कायेन करोति, तस्य दुर्गतिपातो भवति । यतः -- " जीवहिंसां जनः | कुर्वन्निहाशं लभतेतराम् । परलोके समाप्नोति, दुःखं श्वभ्रादिकं स्फुटम् ॥१॥ जीवरक्षां जनः कुर्वन्, वाचा कायेन | चेतसा । इहामुत्र सुखश्रेणी, नराणां लभतेतराम् ॥२॥ आउं दीहमरोगमंगमसमं रूवं पगिद्धं बलं, सोहग्गं तिजगुत्तमं निरूवमो भोगो जसो निम्मलो । आएसिक्कपरायणो परियणो लच्छी अविच्छेयणी, हुज्जा तस्स भवंतरे कुणइ जो जीवाणुकंपं णरो ॥३॥ परसमयेऽप्युक्तम् — “ यो दद्यात्कांचनं मेरुं कृत्स्नां चैव वसुन्धराम् । एकस्य जीवितं दद्यानच तुल्यं युधिष्ठिर ! ॥ १ ॥ देहिनः सुखमीहन्ते, विना धर्मं कुतः सुखम् । दयां विना कुतो धर्म्मः, तस्मात्तस्यां रतो भव ॥ २ ॥ अथ हृदयमंजरीशैवागमेऽपि प्रोक्तम्- - " सर्वेषां धर्माणामादि-रहिंसा निगद्यते सद्भिः । तद्रहिता नश्यन्ति हि, हतनायकसैन्यवत् धर्माः ॥ ॥ " गीतायां - " पृथिव्यामप्यहं पार्थ ! | वायावद्मौ जलेऽप्यहं । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥ १ ॥ यो मां सर्वगतं ज्ञात्वा न हिंसेत कदाचन । तस्याहं न प्रणश्यामि, स च मां न प्रणश्यति ॥ २ ॥ " यत्र जीवस्तत्र शिन इति वचनात् । अतः स्थावरेष्वपि जीवत्वं सिद्धं, अतः साधुभिः सर्वप्रकारेण त्रसेषु स्थावरेषु जीवेषु हिंसा न कर्तव्या । ततः प्रासुकान्येवान्नपानानि गृहीतव्यानि तदलमोभिः फलैः
१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org