________________
॥ श्रीभरते- श्वर वृत्तिः॥
मार्गे धर्मश्रवणश्रीपूज्यपादनमनात्पुण्यं भवति । " ततः शोभने दिने सुशकुनेषु जायमानेषु, जम्बूचासमयूरदर्शन- श्रीआदीश्वर प्रदक्षिणावोत्तरणादिना धनसार्थवाहः श्रीधर्मघोषसूरिभिः सह चचाल । यतः- "जंबूचासमयूरे, भारदाये तहेब ||| चरित्रम् । नउले य । दसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती ॥१॥ ब्रजित्वा वामदिग्भागं, दक्षिणात्मधुरस्वरः । काकः पूरयते नित्यं, प्रस्थितानां मनोरथान् ॥ २॥ चक्रवाकभारद्वाज-हंसहारीतसारसाः। कलविकस्तु दात्यूह-चकोरजलकुर्कुटाः ॥ ३ ॥ एतेषां लोमशश्चापि, दर्शनं मङ्गलप्रदम् । लटाखंजनचाषाना, दक्षिणे गमनं शुभम्॥४॥ टिट्टिभः| कौशिकश्चापि, वामो राजशुकः शुभः। मयूरश्च तथा श्येनो, दक्षिणाद्वामगः शुभः॥५॥" मार्गेऽन्येचुरुपायनागतं, परिपक्चरसालफलपरिपूर्ण स्थालं, श्रीगुरूणां पुरो मुक्त्वा धनः सार्थवाहः प्राह-" भगवन् ! अमूनि सहकारफलानि । गृहाण, मम पुण्यं भवति ।" गुरवस्तं भद्रकस्वभावं विज्ञाय जीवाजीवादिस्वरूपं तस्य पुर एवं प्ररूपयामासुः । मूलं धम्मस्स दया, असेसजीवाण होइ सा जणणी । जं तसथावरजीवाण, रक्खणं होइ जइ धम्मो ॥१॥ जीवस्वरूपं त्वेव प्रोच्यते जिनेन्द्रैः- -भजलजलणाऽनिलवण-बितिचउपंचेंदिएहि नवजीवा । मणवयणकायगुणिया. हवंति ते सत्त्वीसाओ॥२॥इक्कासीई ते करणकारणाणुमइताडिया होइ। सच्चिय तिकालगुणिया, दुन्निसया हुँति तेआला
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org