________________
तेन पुत्रेण विना रात्रिन्दिवं निद्रा नायाति स निःश्वासो मुखे न माति च । यदा तस्य सूनोर्मम वियोगोऽभूत्, ततः । प्रभृति सुखं गतम् । मया अविमृश्य कार्य कृतम् । न ज्ञायते स मम कुमारो जीवन मृतो वाऽथवा कापि श्वापदैक्षितः। कस्यापि गृहेऽथवा दासीभूय स्थितोऽस्ति । जलदे वर्षति गृहे गृहे भिक्षा मार्गमाणोऽस्ति । बुभुक्षितस्तृषितो दुःखीजातो भावी । वर्षाकाले स्थानकाभावात् पशूनामिव मस्तकोपरि सर्वं जलं पतिष्यति । शीतकाले भृशं । शीतेन ताड्यमानोऽतीव दुःखितो भावी । श्रेणिकः उष्णकाले तृषातापादि कथं सहिष्यति। एवं स्मारं स्मारं श्रेणिकं भूपो। दुःखितोऽभूत् । कदाचिदेवं ध्यायतिस्म राजा । कस्य पुत्राः केषां पिता कस्य माता कस्य सुहृद् कस्य प्रिया इत्यादि सर्व स्वप्नजालतुल्यं दृश्यते । मिथोऽनन्तेषु भवेषु जीवाः सर्वे सर्वसम्बन्धिनोऽभूवन भवन्ति भविष्यन्ति च । एवं खं चित्तं । स्थिरीकृत्य यावद् राजा तिष्ठति स्म, तावत् सार्थपोऽभ्येत्य जगौ-देव ! युष्माकं पुत्राणां शतं श्रुतं। अधुना नवनवतिः कथं । ||दृश्यते ? राज्ञोक्तं श्रेणिकगमनस्वरूपं ततोऽवग् सार्थपः भवत्पुत्रतुल्यो वेन्नातटपुरे धनश्रेष्टिगृहे महाबुद्धिमान् दृष्टः । तत्र यदा मयोक्तं-भवान् राजगृहे दृष्टः, तदा तेन 'राजगृहो वैरिणामपि मा भवतु । तस्य मुखादित्यादि श्रुत्वा प्रसेनजितभूपस्य हदि पुनः शल्यं प्रकटीजातम् । प्रसेनजितो जगौ च । अहो तेन पुत्रेणैकशोऽपि आत्मनः
Jain Educationa
l
For Private & Personel Use Only
S
w.jainelibrary.org