________________
॥ श्रीभरतेश्वर वृत्तिः ॥
॥ ३३ ॥
Jain Education
कथितुं न शक्यते, तथापि किमप्यनुच्यमानमपि मयोच्यते । भवत्पुत्रीं अत्रानय त्वम् । तत्रानीता नृपेण । रत्नाम्बुछटया सुलोचनानेत्रे प्रक्षालिते, ततः सुलोचना दिनेऽपि ताराः पश्यन्त्यभूत् । ततो राजा | जगौ - अर्धराज्यं गृहाण | धनोऽवक् मम राज्येन किमपि कार्यं नास्ति, परं मम पुत्र्या यो दोहदो जातोऽस्ति तं पूरय । ततो राज्ञा स्वपुत्रीयुता सुनन्दा कुञ्जरारूढा कृता । राजा चचाल, नृत्यादि कारयन् छत्रचामरवादित्रादिपुरस्सरं नरपतिर्भूपमार्गे चचाल । सर्वप्रासादेषु जिनान् पूजयामास सुनन्दा । ततः स्वगृहेऽभ्येत्य यतीनाकारयित्वा प्राशुकान्नपानैः प्रतिलाभयामास । ततोऽखिलदेशेषु अमारिः कारिता । ततो भूपधनयोः । सुलोचनासुनन्दयोर्बाढं मैत्री जाता । गृहे गृहे घृतलभनादि कृतम्, हट्टश्रेणिमध्ये तलिकातोरणानि च कारया-मास भूपः । अन्येद्युः श्रेणिकेनोक्तं प्रियां प्रति यद्यात्मनः पुत्रो भविष्यति तस्याभयकुमारेति नाम दास्यते, | यतोऽमारिप्रवर्तनादिदोहलोत्पत्तेः । इतः स सार्थ पः पृथिवीपीठे भ्रमन्नुपार्जितभूरिघनो राजगृहे नगरे जगाम । | प्रसेनजितराजा नवनवतिं पुत्रान् परस्परं विरोधं कुर्वतो वीक्ष्य श्रेणिकं कुमारं तादृशं विनीतं स्मरन् पुनःपुनरेवं तस्थौ प्रियाग्रे एवं जजल्प च । मयाऽपमानितो राज्यं मुक्त्वा श्रेणिकः कुमारो दूरं गतः, स कथं भविता । मम
For Private & Personal Use Only
सुनन्दायाः दोहदपूतिः
॥ ३३ ॥
www.jainelibrary.org