________________
| जामातुरग्रे जगाद | श्रेणिक: पत्नीमनोरथं श्रुत्वा हृष्टः । यस्या एवंविधो दोहलो जायते, तस्या गर्भे कोऽपि | पुण्यवान् नरः । गर्भानुभावादेवंविधो दोहलो भवति । यतः — “ भवन्ति भूरिभिर्भाग्यैर्धर्मकर्ममनोरथाः । फलन्ति यत्पुनस्ते तु तत् सुवर्णस्य सौरभम् ॥ १ ॥ प्रतिपन्नं यदभ्यस्तं, जीवैः कर्म शुभाशुभम् । तेनैवाभ्यासयोगेन, तदेवा| स्वस्यते पुनः ॥ २ ॥ " ततः कुमारेणोक्तं राज्ञोऽस्य या पुत्री जात्यन्धाऽभवत् । साऽधुना जीवन्त्यस्ति अथवा मृताऽस्ति ? | धनोऽवग्--अद्य यावत् जात्यन्धा विद्यते । वेन्नातटपुरस्वामी तस्या एव आज्ञां कारयति वल्लभत्वात् । | बाल्येऽपि चारित्रं गृहीतुकामा प्रचण्डं तपः करोति । तस्याः प्रसृतिप्रमाणलोचने दृष्ट्वा लोका जानंत्येषा इति पश्यअन्त्यस्ति, स्वभावेनापश्यन्त्यपि, सुलोचनेति प्रोच्यते । यस्तां राजपुत्रीमन्धां वदति । तस्य राजा शिक्षां ददाति । राज्ञोऽतीव वल्लभाऽस्ति । भूपपुत्रीमन्धां मत्वा श्रेणिकोऽवग्- तव पुत्र्या यो दुःशको दोहद उत्पन्नोऽस्ति, तस्य पूरणे | उपायोऽस्ति । श्रेष्ठिनोक्तं कः उपायः ? श्रेणिकः प्राह - इदं रत्नं गृहीत्वा राजोपान्ते गत्वेदं कुरु । अनेन रत्नजलेन राज्ञः पुत्रीनेत्रे छण्टय, ततो दिव्ये चक्षुषी भविष्यतः । राजा यदा तुष्टो भवति तदा त्वत्पुत्रीदोहदपूरणं मार्गय । ततो धनो रत्नमादाय यावन्नृपोपान्ते गतस्तावद्राजा समुत्तस्थौ । मिथः प्रीतिवृद्धिं चक्रतुः श्रेष्ठी रहसि जगौ । तवाग्रे
Jain Education Mtional
For Private & Personal Use Only
www.jainelibrary.org