________________
Jain Education
1
| समागमः । अयि साधय साधयेप्सितं, स्मरणीया समये वयं वयम् ॥ २ ॥ " ततश्चतसृभ्यो दिग्भ्यो नवीनानि पात्राणि धनस्य तस्य गृहे नर्तितुमागच्छन्ति स्म याचका धनं याचितुं च । अयं श्रेष्ठी अभाग्यवान् मूर्ख इत्यादि ये ये जजल्पुरिभ्यास्ते ते अस्य धनसाधोर्वणिजोऽभूवन् पदयोस्तलेऽस्य लुठन्ति च । श्रेणिकेनात्मनो नाम्नि गोपाल इति नाम | स्थापितम् । श्रेष्ठी धनधान्यादिपूर्णोऽजनि । सुनन्दानाथको देवगृहे जिनपूजादि सप्तक्षेत्रे धनव्ययं करोति स्म । यद्यत क्रयाणकं धनो गृह्णाति तत्र तत्रानर्गलो लाभो भवति । अनेके घोटका गृहीता धनेन आवासः कैलाससोदरोऽङ्गीकृतः । घोटकशालायां घोटका बडास्तेषां रक्षणार्थं पाण्डवाः स्थापिताः । बहवः व्यवहारिणोऽपि तस्य किङ्करीभूय सेवां कुर्वन्ति । यस्य गृहे लक्ष्मीर्भवति तस्य सर्वे जनाः सेवां कुर्वन्ति । यतः - “ एहि गच्छ पुरे तिष्ठ, वद मौनं समाचर । एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ १ ॥ " श्रेणिकस्य सुनन्दया सह प्रीतिरजनि बाढम् । सुनन्दा भर्तुर्मनसा चलति । क्रमाद्वर्षद्वयातिक्रमे सुनंन्दा गर्भ दधार । यथा यथा गर्भो वर्धते | तथा तथा तस्या बुभुक्षा न लगति । कदाचित् कवलद्वयं कवलत्रयं जेमते न वा सा । यद्भुक्तं तया तद् द्वितीयदिवसे वमति । क्रमादतीव दुर्बलाऽभूत् सुनन्दा | चलन्त्याः सुनन्दाया मुखे श्वासो न माति । सोजकः पदयोर्लन
For Private & Personal Use Only
www.jainelibrary.org