SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सार्थपस्य एतच्छुत्वा राजा हृष्टः । दिव्यवस्त्रादिना सन्मान्य धनः श्रेष्ठी सार्थपयुग् प्रेषितः । श्रोष्ठनोऽग्रे स्वर्णबीजपू राणि यावत् सार्थपो मुञ्चति तावत् श्रेष्ठी जगौ-अस्य श्रेणिककुमारस्याग्रे मुञ्च असावेव जानाति सर्वम् । द्वयोः Falप्राभृतं कृत्वा सार्थपः प्राह-अहो धनो धन्योऽस्ति यस्य ईदृक्षे विभवे सति एवंविधो विनयः । यस्मिन् देशे ईदृक्षा व्यवहारिणो भवन्ति स देशो धन्यः । श्रेणिकं दृष्ट्वा तदा सार्थपः प्राह-अहो कुमार ! त्वं राजगृहे दृष्टोऽभूर्मया ।। कुमारोऽवग्-राजगृहो वैरिणामपि मा भवतु, यद्येवंविधमशुभं वचनं जल्प्यते भवता, तदा अन्येषां गृहे गत्वा वस्तु गृहाण, अस्मदीयं वस्तु गृहितारो बहवो भविष्यन्ति । ततो रुष्टं श्रेणिकं मत्वा सार्थप । उत्थाय तस्य पादयोः पतित्वा प्राह-अहं मुग्धोऽभवं यदेवंविधं वचोऽत्र जल्पितं मया क्षम्यताम् ।। ततो कुमारोऽवग्-एकं तेजनतूरिकाया गद्यानकं वन्हिमध्ये क्षिप्त्वा तन्मध्ये भारप्रमाणं तानं क्षिप्यते, । ततः सर्वे सुवर्णं भवति, ततो नायको हृष्टो न्युछनकं चकार तस्य । ततः स प्राह-तेजनतूरिकायाः वर्णिका, Ma दर्शय, ततो धनेन वर्णिका दर्शिता । तेजनतूरिकां दृष्ट्वा सार्थपो दध्यौ । अहो धन्योऽसौ यस्य गृहे एवंविधे । वैभवे सत्यपि एवंविधो दाक्षिण्यादिगुणः । धन्यमिदं पुरं धन्योऽसौ भूपः यस्य राज्ये एवंविधा व्यवहारिणः सन्ति ।। Jain Education interna For Private Personel Use Only ॐ ww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy