________________
Halराणि विलोक्यात्मीयराज्यं कुरु । श्रुत्वैतत् कुमारो ग्रन्थि बध्वा प्राह-एषैव वेला वर्या वर्तते । यत् रोचते भवतः तत् ।
कुरु । ततः श्रेष्ठी स्वां पुत्री समहोत्सवं श्रेणिकाय पर्यणाययत् । अन्येयुः श्रेणिको हट्टे उपविष्टः । अत्रान्तरे पुरे|| पटहो वाद्यमानः कुमारेण श्रुतः । पृष्टं च तेन । श्रेष्ठिन् किमर्थ पटहो वाद्यते ? श्रेष्ठी प्राह सपादलक्षबलीवर्दभत-IN नानावस्तुसमुच्चयो देवनन्दिसार्थवाहोऽत्रागात् । तस्यास्ति एकः शुकः । षण्मासान्ते जल्पति पृष्टः सत्सत्यं । देवनन्दिसार्थपेनैकदाऽऽत्मपुरस्थेन स शुकः पृष्टः। तेजनतूरिका कुत्रास्ति ? शुको जगाद वेन्नातटपुरेऽधुना समस्ति । सा तेजनतूरिका । ततः स सार्थवाहो भूरिक्रयाणकपूर्णसपादलक्षपृष्ठवाहयुतो गतदिनेऽत्रागात् । राज्ञो मीलितः प्राभृतं । वयं कृतं । राज्ञोक्तं किं विलोक्यते ? तेन प्रोक्तं तेजनतूरिका । राज्ञाऽऽकारिता मन्त्रिणः पृष्टाश्च कस्यास्ति तेजनतूरिका ? मत्रिभिरुक्तम्-न ज्ञायते कस्यास्ति । राजा प्राह-तन्नगरं वयं । यत्र पुरे सर्वाणि वस्तूनि लभ्यन्ते । आयान्ति च । यत्र भूरिधनिनो व्यवहारिणो वसन्ति । यत्रागता वस्तु न लान्ति जनाः । यत्र सर्वाणि क्रयाणकानि न सन्ति ।। तदपि पुरं पुरमध्ये कथं गण्यते । इत्यादि प्रोक्त्या राजानं खेदं दधानं दृष्ट्वा मन्त्रिणो जगुः पटहो वाद्यते ।। आत्मीयं पुरं महद्विद्यते । कस्यापि गृहे कदाचिह्नविष्यति । एतद्विचार्य राज्ञाऽऽदिष्टा मत्रिणः पटहं वादयन्ति ।।ला
Jain Education
on
For Private & Personel Use Only
www.jainelibrary.org