SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ भ्याम् । एवं चेन्नक्रियते भवता तदा गङ्गाप्रवाहे प्रक्षिप । यथा सन्तापो न भवति । कुमार आचष्ट । यदि मम| Y|पितुनामकुलवसनग्रामादि न पच्छयते, तदाऽहं दिनानि कतिचित् स्थास्यामि धनो बभाण-अहं तव पार्श्वे किमपि नामादि न पृच्छामि । त्वमात्मीयेन नाम्ना सह राज्यं कुरुष्व । मम सम्बन्धि वस्तु इदं त्वदीया बुद्धिः। तव बुद्ध्या विक्रीयेदं वस्तु आवाभ्यामधेन विभज्य गृहीष्यते धनेनावर्जितः श्रेणिकः । ततो दन्तधावनार्थ नीरमानीतम् । एकंदातनकं विस्फटिकां कृत्वा द्वाभ्यां धनश्रेणिकाभ्यां मुखशोधनं कृतम् । द्वाभ्यां परस्परं प्रीतिः कृता । कुमारस्य रत्नानि गृहीतानि श्रेष्ठिना। दातनकजले ययाऽऽनीते सा धनपुत्री बालकुमारी विद्यते । दातनकं कृत्वा कुमारो यावद् हट्टे उपविष्टः। तावत्तया कन्यकया सुलक्षणवान् कुमार उपलक्षितः । दध्यौ च कुमारी । यद्ययं मम भर्ता भवति तदा सुकृतस्यानन्तस्योदयोऽजनि मम, एवं ध्यात्वा कुमारी पितुः पुरः प्राह-यदि तात त्वं मां परिणायिष्यसि एनं तदासौ वरो मे भवतु, नो चेत् चारित्रं भवतु मम । ततो धनः श्रेष्ठी प्राह-भो वत्से एवं वक्तुं तव न युज्यते गहे गच्छ, गहं । प्रमार्जय । दूरत आत्मनः प्राघूर्णक आगतोऽस्ति । ततो धनपुत्री गृहे गत्वा जननीपार्श्वे प्राहेति-एक आगतोऽस्ति पुमान् दूरतः आत्मीयहट्टे, तं दृष्ट्वा मदीयं मानसमुल्लसितम् । मम सुखभक्षिकायै योऽर्थो विधीयते विद्यते वा Jain Education a l For Private & Personel Use Only N w .jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy