SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ गृहीतम् । तन्मध्ये या धर्दृिष्टा राज्ञा उक्तं च एषा धूलिरस्य गले बन्धनीया । यतः । अद्यप्रभृति एवंविधं स्तैन्यं न | करोति श्रेष्ठी । ततोऽहमेवंविधो भूपेन कृतोऽखिलधनापहारात् । यदि दूरं त्यज्यते, तदा लोका हसन्ति माम् , ततो मया चिन्तितम् । वर्षाकाले कदमो हट्टश्रेणौ भवति तेन कियती धुलिहट्टाने स्थापिता, कियती हट्टमध्ये स्थापिता मया, यहाहनं मया गृहीतं तदपि दिनपञ्चसप्तमध्ये गङ्गापूरेण दृष्टिपथमागमिष्यति । धननामाप्यह निर्धनोऽभवम् । श्रेणिकः प्राह-अहो वस्तुस्वरूपं यो न जानाति स कथं क्रयविक्रयौ करोति । श्रेष्ठी जगौ-अग्रे लोका मां हसन्ति यदि त्वमप्येवं मां हससि तदा का गतिर्मम । लोका जानन्ति एषोऽत्र किं वप्तति । वयं गृहं । वर्थ हट्टं मदीयं लातुं सर्वे जनाश्चिन्तयन्ति स्म । गृहं मया विक्रीष्यते नगरमिदं त्यक्ष्यते । यस्मिन् पुरे मानेकनानाविधमधुराहारदिव्यवस्त्रपरिधानादि कृतम् । तस्मिन्नधुना यत्तदाहारवस्त्रादिना निर्वाहो मया क्रियते । अहं जानामि किं कूपे पतित्वा मरणं साधयामि, अथवा वन्ही प्रविशामि । लक्ष्मी विना नरो न शोभते । यतः-" वरं वनं व्याघ्रगणैर्निषेवितं, जनेन हीनं बहुकण्टकावृतम् । तृणानि शय्या वसनं च वल्कलं, न बन्धुमध्ये निर्धनस्य । जीवितम् ॥१॥" करुणासागरः कुमारः श्रेष्ठिनं दु:खिनं दृष्ट्वा दुःखितोऽजनि । यतः-चेतः सार्द्रतरं वचः समधुरं Jain Education Le ona For Private & Personel Use Only Ilallww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy