SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ २६ ॥ कः आत्मनः स्वार्थः ? श्रेष्ठी प्राह- अद्य रात्रौ केनचित् सुरेण स्वप्नछलान्ममाग्रे प्रोक्तमेवम् यः प्रभाते विंशतिवर्षप्रमाणो धवलवस्त्रधारी पूर्वदिशायाः कश्चित् समप्यति सप्तसु घटीषु गतासु अष्टम्यां घट्यां भवद्हट्टाग्रे स तवापदां सर्वा भेत्स्यति । एवंविधं स्वप्नं दत्त्वा कोऽपि देवो विद्युदिव तिरोदधे । ततः प्रातरुत्थाय मया चिन्तितं वर्य स्वप्नमिदम् । यतः स्वप्नशास्त्रे - "देवताश्च द्विजा गावः, पितरौ लिङ्गिनो नृपाः । यद्वदन्ति नृणां स्वप्ने, तत्तथैव |भविष्यति ॥ १ ॥ कृष्णं कृत्स्नमशस्तं, मुक्त्वा गोवाजिराजगजदेवान् । सकलं शुक्लं शस्तं मुक्त्वा कर्पासलत्रजानि ॥ २ ॥ गायने रोदनं ब्रूयान्, नर्तने वधबन्धनम् । हसने शोचनं ब्रूयात् पठने कलहं तथा ॥ ३ ॥ ” ततोऽहं हट्टे समेत्य यावदुपविष्टः तावत्त्वं तादृग्लक्षणलक्षितो मया दृष्टः । कुमारो दध्यौ । एष श्रेष्ठी मुग्धः किमपि गुह्यं न स्थगयति । यथा यथा श्रेष्ठी स्वप्नस्वरूपं कथयति तथा तथा कुमारः कौतुकं चित्ते धत्ते । अपवरकमध्ये वस्तु दृष्ट्वा कुमारः प्राह - गर्भगृहमध्ये यद्वस्तु मुक्तं तत् किमर्थं ? श्रेष्ठी प्राह-परद्वीपसम्बन्धिवाहनं समुद्रमध्ये वहमानं चौरैर्गृहीतम्, तैः स्तेनैस्त्वरितमत्रानीय मम भूरिद्रव्येण भरितं समर्पितम् । गतेषु स्तेनेषु राज्ञा तद्वृत्तान्तं ज्ञात्वा प्रथमं धनकणकर्पटकाञ्चनरूण्यादि सर्व मदीयं दण्डे गृहीतम्, श्रेष्ठिपदव्यपि उद्दालिता, वाहनमध्यस्थं क्रयाणकमपि Jain Education International For Private & Personal Use Only श्रीश्रेणिकघनावहयो में लापः ।। २६ ।। www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy