________________
IN | त्वमतिलोभता । निःस्नेहो निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥ ३ ॥ दर्शने हरते चित्तं, स्पर्शने हरते बलम् ।
सङ्गमे हरते वीर्य, नारी प्रत्यक्षराक्षसी ॥४॥” कृत्वा मौनं क्षणं तस्मात, स्थानकाच्च शनैः शनैः। चचाल श्रेणिको यावत, तावत् पृष्ठे चचाल सा ॥५॥ अग्रतो गच्छन् श्रेणिको दावं ज्वलन्तमालोक्य अग्निस्तम्भनमणिं हृदि स्मरन अग्निमध्ये प्रविवेश । अग्निमध्ये ऊर्वीभूतः श्रेणिकस्तां प्रति प्राह । रे भिल्लिके यदि मां परिणेष्यसि तदाऽत्र मम समीपं समागच्छ । आकर्येतद् भिल्लिका हस्तौ घर्षयन्ती बभाण-अहं त्वरितगतिकाऽभूवं यद्यहं स्थिराऽभविष्यं| तदाऽसौ शनैः शनैर्मा पर्यणेष्यत । अनेन धूर्तेन संमुखाऽहं छलिताऽस्मि । अकरिष्यमहं बाढं, विनयमस्य सन्ततम् । अजल्पियं वचो भीति-दायकं न मनागपि ॥१॥ अभविष्यमहं दासी, यद्यस्य मृदुजल्पनात् । अपतिष्यत्तदापाशे, मदीयेऽसौ सुनिश्चितम् ॥ २॥ यन्मया जल्पितं तन्मे, मस्तके पतितं खलु । मन्त्रतन्त्रादिकोटीना-मेष जानाति निश्चितम् ॥ ३॥ रङ्कस्य चटितं रत्न, हस्ते किं तिष्ठति स्फुटम् । मया मौग्ध्यात स्वमन्त्रादि-ज्ञातृत्वं जल्पितं खलु ||॥४॥ अनेन येन दावाग्निहीतो मां वञ्चयित्वा । अहं किं करिष्ये क गच्छामि कस्याग्रे वदामि ऊर्ध्वस्थिता भिल्लिका कुमारं गच्छन्तं दर्श दर्श मनसि खेदं दधती हृदयं कुट्टयामास । क्षणेनकेन तया चिन्तितं गच्छन् म्रियमाणो वा|
Jain Education
colleal
For Private & Personel Use Only
w
ww.jainelibrary.org