________________
॥ श्रीभरतेश्वर वृत्तिः ॥
॥ २४ ॥
Jain Education
सङ्केताः । अहं पानीयपूरेभ्योऽपि न बिभेमि । कुञ्जरं कर्णे धृत्वा रक्षामि । एकस्माद्वैश्वानराद्दूरे नश्यामि । मत्वेति त्वं वरो मां परिणेतुं मन्यस्व । मम पितुर्देशसीमा योजनशतं यावद्विद्यते । तेन ममाग्रतः कथं त्वं गमिष्यसि ममाङ्गीकरणं | विना । हसतामहसतामपि प्राघूर्णो भवति यथा तथा मां परिणेतुं हस्तं घर । श्रेणिकः कुमारो दध्याविति । इमां शाकिनीं कथमहं परिणेष्यामि । एकं तावदियं मलिना । नीचा जात्या कामुका वदन्ती च बलिष्ठा धूर्तिका च अहमग्रे सारमेयादिभिः जेमनादिक्रियां कुर्वाणस्तातेन निष्कासितः स्वदेशात् । यद्यस्याः स्यां भर्ता तदा मम | ज्ञातृत्वस्य मस्तके क्षारः पतिष्यति । अगमनगमनेन कुलं क्षिप्यते तथाऽघमैः । यदि मयेयं परिणेष्यते तदा क्षत्रियकुलं भिल्लकुलसमानं मया गण्यते । यदीयं परिणेष्यते मया तदा अस्या हस्ते गृहीतव्य आहारः । अस्याः | | पितुश्च मया नमस्कारः करणीयः । यदि मया पाणिग्रहोऽस्याः क्रियते तदा मम मातापित्रादयो लज्जन्ते । कथमपि नारीमिमां न वरिष्ये । किमस्याः पार्श्वात् नश्यामि अथवा मृतिं करिष्ये श्रेणिक इति दध्यौ । यतः - "अर्जयित्वा कुलं वर्य - तमं ये मनुजाः खलु । अधमैः सह कुर्वन्ति, मैत्रीं ते ह्यधमाः स्मृताः ॥ १ ॥ संसारे हयवि|हिणा, महिलारूत्रेण मंडियं पासं । बज्झन्ति जाणमाणा, अयाणमाणा न बज्झन्ति ॥२॥ अनृतं साहसं माया, मूर्ख -
For Private & Personal Use Only
श्रीश्रेणिक
कुमारस्य विदेशगमनम्
॥ २४ ॥
ww.jainelibrary.org