SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रेणिकः । पर्वतशिखरतःप्रवाहानुत्तरतः प्रेक्ष्य मयूरान् नृत्यतश्च जहर्ष श्रेणिकः। पल्लीमध्ये चलन राज्यगहनिवासादधिकं सुखं मन्यतेस्म । गच्छत एकाकिनो वने अकस्माद् भिल्लपुत्री कुमारिका दृष्टिपथमवतीर्णा | भिल्लिका श्रेणिकं देवकुमारतु मागच्छन्तमालोक्य नूपुरनिनादपूरितदिगन्तराला मयूरपिच्छनिर्मापितचरणसालंकृतगात्रा हर्षोत्कर्षपूर्णस्वान्ता चलन्ती || क्रममाणा गजगत्या शनैः भिल्लिका कुमारी मुमुदे चन्द्रमिव चकोरीका । पर्वतशिखरादुत्तरन्ती श्रेणिकसमीपमागता | भिल्लिका जगाविति । अथ मम जन्म कृतार्थमजनि। यत त्वमेवंविधस्तरुणो रूपवान् वरो लब्धः। तव शरणमागतास्मि । ||तिष्ठ तिष्ठ स्वामिन् प्रसादं कृत्वा ममोपरि। पल्ल्यामस्यां मदीयः पिता राजास्ति। मां यदि त्वं परिणेण्यास तदा मतपिता त्वां देशाधिपं कृत्वा स्थापयिष्यति । यदि मदीयं कथितं नैव करिष्यासि तदा त्वमकाले मृति गमिष्यसि । यानि यानि औषधानि मणिमन्त्रतन्त्रप्रभावाश्च वर्तन्ते तानि सर्वाणि जानाम्यहम् । एकमौषधमस्ति ममेदृशं येन मनुष्योऽपि पशुभवति पशरपि मनुष्यः स्यात् । एकेन मनुष्यो मर्कटो भूत्वा पदे पदे लगन् चलति । एकेन मर्कटोऽपि मनुष्यो भवति अहं वृक्षान प्रति पादौ मञ्चन्ती अन्येषां जनानां मदनभीष्टानां हस्तपादं भिनद्मि। अहं व्याघ्रसिंहेभ्योऽपि न बिभेमि। जवनमध्ये चलन्ती न बिभेमि, भूतप्रेतपिशाचेभ्योऽपि न बिभेति । अहं चौरसादिभ्योऽपि न बिभेमि । ममोपान्ते सन्ति For Private Personel Use Only Jivw.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy