________________
॥ श्रीभरतेश्वर वृत्तिः ॥
॥ २५ ॥
Jain Education
केनापि रक्षितुं न शक्यते । अहं तु मुधैव विषादं करोमि, भाग्यं विना चिन्तामणिगृहे न तिष्ठतीति ध्यायन्ती सा तत्र | तस्थौ । कुमारो मुष्टिं बध्वा चचाल । ततो बलेन क्रमात् श्रेणिको गङ्गाप्रवाहं प्राप । जलं भूरि पश्यन् कुमारस्तरंश्चतस्रो | दिशः पुनः पुनर्विलोकयामास । तस्या उपकण्ठे महाचन्दनतरुं शुष्कमालोक्य हर्षितः श्रेणिककुमार आरुरोह । यावदुपरि चटितस्तावत् कडकडशब्दं कुर्वन् वृक्षो गजेन्द्र इव पानीयमध्ये पपात । रत्नं जलतारकं मनसिकृत्य शुष्कवृक्षारूढः कुमारः विमानस्थ इव चलन शुशोभ । चन्दनपादपाधारेण रत्नप्रभावेण च विंशतिदिनप्रान्ते वेन्नातटपुरसमीपे प्राप्तः । कुमारः यावत् विमानतरुं तत्र स्थापयामास तावत् पुरमध्ये सर्वतः तस्य तरोः परिमलः | प्रससार । परिमलानुसारेण तत्र बहवो महेभ्या आगता भ्रमरा इव जातिपुष्पपार्श्वे । महेम्या जगुः । भो सार्थवाह अस्य चन्दनस्य किं मूल्यम् कुमारेणोक्तम् - अस्य मूल्यं वक्तुं न शक्यते । मणिमाणिक्यतुलया विक्रीयते । एवंविधं चन्दनं कस्यापि राज्ञो भाण्डागारे नास्ति । सुवर्णेन समं तोलयित्वा अर्पयिष्यामि चन्दनं शुष्कमपि । यूयमप्यर्पयिष्यथ । क्रयाणकं वर्यं सर्वमपि क्षमते । अत्रान्तरे बहुषु लोकेषु मीलितेषु महेभ्यैरुक्तम् भो लोका दूरीभवन्तु, मा जानीथ एवं एककोऽस्ति, वयं सर्वे अस्य साधर्मिकाः स्मः, यदस्य स्वल्पमपि चन्दनं गच्छति तदस्माकमेव गतं, तेन न केनापि
For Private & Personal Use Only
श्रीश्रेणिक
स्य वेन्नातट गमनम्
।। २५ ।।
w.jainelibrary.org