SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Jain Education चचार श्रेणिकः । भ्रामं भ्रामं भुवं बहीं, कुमारः श्रेणिकः क्रमात् । वज्राकरं महाशैलं ददर्श मुदिताशयः ॥ १ ॥ श्रेणिकस्य कुमारस्य तत्रस्थस्य वज्राकरगिरिसमधिष्ठायकदेवो भाग्यं महत्तमं वीक्ष्य रात्रौ स्वप्नछलेनेदं प्राह - हे कुमार ! | पिप्पलयुगलं हस्तमेलापकाकारं बृहच्छाखं सुरनदीतीरे समस्ति । इतो गव्यूतान्ते तयोर्मध्ये शाखायामेको महान् धवलप्रस्तरोऽस्ति । तस्य प्रस्तरस्य गुणा मेरुतुल्याः सन्ति । तस्य मध्ये अष्टादश महाप्रभावाणि रत्नानि एकैकोपरि सन्ति । तथाहि - एकेन अष्टादश वर्ण वशीभवन्ति १ एकेन रत्नेन सर्वाणि विषाणि उत्तरन्ति २ एकेन राजामात्यमहेभ्यादयो मानं ददते ३ एकेन ऋद्धियुक्तं सन्तानं भवति ४ एकेन दिव्यभोगाः स्युः ५ एकेन जलपूरस्तीर्थते ६ | एकेन विवेक उत्पद्यते ७ एकेन क्षुद्रोपद्रवा न भवन्ति ८ एकेन शरीरे घातो न लगति ९ एकेन पठितं विना विद्या समेति १० एकेन अनीकबन्धो भवति ११ एकेन जात्यन्धा अपि जनाः पश्यन्ति पुरस्थितम् । १२ एकेन पावकोऽङ्गं न दहति १३ एकेन वस्तुपरीक्षा ज्ञायते १४ एकेन बुभुक्षातृषे न लगतः १५ एकेन मार्गे गच्छतां नृणां व्याघ्रसिंहादयो दुष्टा जीवा न मीलन्ति १६ एकेन रूपपरावर्तो भवति १७ एकेन देहाद्रोगा गच्छन्ति लोका नमन्ति सर्वे १८ त्वमसि दक्षः, एष पाषाणस्त्वया विलोकनीयः । अष्टादश रत्नानि गृहीत्वा अक्षराणि लिखित्वा आत्मनः पार्श्वे For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy