________________
वस्त्राणि गृहीत्वा जलकुम्भानां परितो वेष्टयन्, ततः करण्डकान् धूनयित्वा धूनयित्वा पक्वान्नचूर्ण पतितं पतितं , खादं खाद कोरकघटवेष्टितवस्त्राणि मईयित्वा मईयित्वा तद्गलितं जलं पायं पायं तृप्ताः सर्वे कुमारा बभूवुः ।। ततोऽखिलाः कुमारा राज्ञः पार्थे समेताः । पृष्टं च भूपेन कथं सर्वे तृप्ता जाताः । एकेन पुत्रेणोक्तम्, al श्रेणिकबुड्या । ततो राजाऽवम्, यस्यैवंविधा धीरुत्पन्ना, स रङ्क एव खज्जकचूर्णकरणात, ततः प्रसेनजितभपः पायसं कारयित्वा सर्वेषां पुत्राणामग्रे अमत्राणि मण्डयित्वा क्षैरेयी परिवेष्य च तत्कालं सारमेयान् । बुभुक्षितान् मोचयामास । कुमाराः तां यावद्भक्षयन्ति तावत् सारमेया घुघुरशब्दं कुर्वन्तः क्षरेयीं भक्षयितुं कुमारभाजनेषु आगताः, ततः सर्वे कुमाराः खरण्टितहस्ता भयभीताः श्रोणिकं विना भाजनानि मुक्त्वा नष्टा दिशोदिशं । श्रेणिकस्तु निर्भयीभूय कुमाराणां सहोदराणां भाजनानि सारमेयसंमुखं चिक्षेप । सारमेयास्तु खरण्टितेषु खर-14 टितेषु भाजनेषु स्थिताः पुच्छानि चालयन्तः कुमारस्य दासा इव जाताः । ततः श्रेणिकः समाधिना स्वभाजनस्थां । क्षरेयीं भुक्त्वा, तृप्तीभूय चाचमनं गृहीत्वा राज्ञः समीपे गतः । परेऽप्यायाताः कुमाराः । राजा श्रेणिकं तृप्तीभूतमपरान् बुभुक्षाशुष्काननान् दृष्ट्वा तृप्तं श्रेणिकं [जगी । ततः] कृत्रिमा भृकुटीं कृत्वा [राजा प्राह-श्रेणिकोऽयं सारमेय
Jain Education
For Private & Personel Use Only
W
w.jainelibrary.org