________________
॥ श्रीभरते- श्वर वृत्तिः।
॥२१॥
यामासिवानिति । सर्वे पुत्रा अमी तुल्य-बला विद्याविशारदाः॥ ३ ॥ न परीक्षा विना राज्य-योग्यो हि ज्ञायते । श्रीश्रेणिकासुतः । प्रजाया वल्लभो बुद्धि-युक्तो विनीतमानसः॥ ४॥ राज्ययोग्यो भवेत् पुत्रस्तेन कार्य परीक्षणम् ।"
दिकुमाराणां
परीक्षा। यतः-"ताते जीवति यदि तातः परीक्षां कृत्वा मर्यादया पुत्रान् न स्थापयामास तदा पितरि मृते बलोत्कटाः पुत्रा मिथो युद्ध्वा युद्ध्वा म्रियन्ते, राज्यं चान्यत्र याति । यतः- " देहे नष्टे कुतो बुद्धि-बुद्धिहीने कुतः स्मृतिः। स्मृतिहीने कुतो ज्ञानं, ज्ञानहीने कुतो गतिः॥१॥" विमृश्येति राज्ञा वयं पक्वान्नं कारयित्वा चोल्लका वंशमया भरिताः अपवरकमध्ये ते मोचिताः, कोरकाः कुम्भा जलभृतास्तत्र मोचिताः भूपेन, ततः सर्वान् पुत्रान् गर्भगृहे| | मुक्त्वा भूपः प्राह-भो पुत्राः भवद्भिश्चोल्लकानां [ करण्डकानां च ] जलकुम्भानां च मुखं नोद्घाटनीयं तृप्तैर्भवितव्यम् , बुद्धया स्वकीयया करण्डकमध्यगं पक्कान्नादि भोज्यं. उद्घाटनं विना जलकुम्भेषु नीरं च पेयम् । श्रेणि-IM कादयः कुमाराः स्वस्वबद्धया चिन्तयन्ति स्म जल्पन्तिस्म च कथं भोक्ष्यते कथं पितराज्ञा अखण्डा स्यात् कस्यापि बुद्धिनॊपपद्यते, तदा सर्वान् सहोदरान् बुभुक्षया पीडितान् वीक्ष्य श्रेणिककुमार आचष्ट-मम बुद्धिं यदि कुरुत यूयं, तदा तृप्ता भविष्यथ । सर्वे सहोदरा जगुः-यदि नस्तृप्तिर्भवति तदा वरम् । श्रेणिकः सर्वेषां स्वच्छानि स्वच्छानि
॥
"
Jain Educationa
lonal
For Private & Personel Use Only
www.jainelibrary.org