________________
॥२०॥
॥ श्रीभरते- कयित्वा स्वस्वशरीरमानप्रमाणाश्चतुर्विशतिर्जिनप्रतिमा दक्षिणस्यां ४, पश्चिमायां ८, उत्तरस्यां १०, पूर्वस्यां २, स्थापयामास। श्रीआदीश्वर श्वर वृत्तिः। तीर्थरक्षानिमित्तं दण्डरत्नेन शिखराणि उच्छेद्य योजनप्रमाणानि सोपानानि चक्रे । तत्र पूजामहिमादिकृत्यं निर्माय | चरित्र
श्रीभरतोऽयोध्या प्राविशत् । तस्य राज्ञोऽन्येचुरन्तःपुरस्थस्य सर्वाभरणभूषितशरीरस्य पुरुषप्रमाणात्मादर्शमुपनीतवान् । सेवकः, तदानीमादर्शमध्ये खदेहं विभूषणभूषितं पश्यतोऽकस्मान् मुद्रिकाऽङ्गुन्लीतः पपात । तदा मुद्रिकां विना कृतं । हस्तं वीक्ष्य निःश्रीकं देहात् मुकुटकुण्डलादीन्याभरणान्युचारयामास । ततो देहं समग्रं निःशोभमङ्गारसदृशं दृष्टा| भावनां भावयामास ततोऽनित्यादिभावना भावयन् केवलज्ञानं प्राप | देहं समग्रमभवहरतेश्वरस्य, रूपावलोकनविधौ मणिदर्पणस्य । आत्मानमात्मनि मनीषितया दिदृक्षो-स्तत्त्वप्रकाशविमलं परमात्मरूपम् ॥ १॥ राज्ञां दशभिः । सहस्रैः गृहीतव्रतैरनुगम्यमानः पूर्वलक्षं यावत् भुवि विहृत्य भव्यजीवान् प्रबोध्य अष्टापदगिरौ मासं यावदनशनीभूय । मुक्तिमाससाद भरतेश्वरः। भरतसूनुः सूर्ययशाः स्वयं शक्रेणाभ्यसिच्यत । बाहुबलिः क्षीणकर्मा मुक्तिं गतः । ब्राह्मीसुन्दयौँ मुक्तिं गते । एतेषां निर्वाणगमनमहिमा देवैरभ्येत्य कृतः। इति श्री भरतबाहुबलिकथा सभाप्ता ॥
॥२०॥
in
duelan
o
sa
For Private & Personal Use Only
Allww.jainelibrary.org