SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ऋषभदेवस्य पुण्डरीकस्य च शरीरमानप्रमाणाः काञ्चनबलानकस्थाः कारिताः। एकः प्रासादो महान् शत्रुञ्जयशिखरे च श्रीयुगादिदेवपुण्डरीकप्रतिमायुतः कारितश्च । श्रीऋषभदेवः श्रीशत्रुञ्जये बहुशो वारान् समागतः उक्तञ्च" नवनवई पुबाई, विहरतो आगओ सि सत्तुंजे । उसभो सुरेहि सहिओ, समोसढो पढमतित्थंमि ॥१॥" चतुर्विधं । श्रीसंघ स्थापयित्वा विंशतिपूर्वलक्षाणि कौमारपदव्यां त्रिषष्ठिपूर्वलक्षाणि राज्यपदव्यां च स्थित्वा एकं पूर्वलक्षं श्रामण्यं । पालयित्वा समस्तक्षीणायुष्कर्मा सर्वायुः प्रपाल्य निर्वाणकल्याणकं खं ज्ञात्वा दशसहस्रयतियुतोऽष्टापदगिरौ । चतुर्दशभक्तेन गृहीतानशनः आसनकम्पात् समागतसौधर्मेन्द्रादिचतुःषष्टिशक्रः श्रीभरते तत्र समेते अवसर्पिण्यास्तृतीयारकस्य एकोननवतौ पक्षेषु शेषेषु माघकृष्णत्रयोदश्यां अभिजिन्नक्षत्रे क्षीणभवोपग्राहिकर्मा पर्यङ्कासन समासीनो लोकाग्रं मुक्तिमङ्गीचकार । तदानीमशेषाः साधवः क्षीणकर्माष्टका मुक्तिं ययुः । अथ देवैः प्राच्यां दिशि । * गोशीर्षचन्दनेन चिता चक्रे प्रभोः। ऐक्ष्वाकुमुनीनां दक्षिणस्यां दिशि व्यस्रा, शेषमुनिवराणां पश्चिमस्यां दिशि चतुरस्रा चके । इत्थं संस्कारादनु तद्भस्म सुरैनरैश्च ववन्दे। ततोऽग्नित्रयं तत्र गहीतं ब्रह्मचारिभिः तदद्यापि ब्राह्मणगहेषु पूज्यमानमस्ति । देवेषु स्वस्थाने गतेषु क्रमाद् भरतः श्रीऋषभदेवनिर्वाणगमनस्थाने सिंहनिषिद्याकारं प्रासादं कार Jain Education a l For Private & Personel Use Only Allww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy