SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ ॥ १९ ॥ सिज्ज॑सो वासुपुज्जो अ ॥ १ ॥ विमलमणंतयधम्मो, संती कुंथू अरो अ मल्ली य । मुणिसुव्वयनामिनेमी, पासो | तह वद्धमाणो अ ॥ २ ॥ अस्यां पर्षदि कोऽप्यस्ति ? योऽग्रे भवत्तुल्यस्तीर्थकृद्भवति ? युगादिदेवो जगौ - यो भवतः पुत्रो मरीचिः, प्राप्तचारित्रोऽधुना परीषहानसहमानः जलस्नानं मस्तकोपरि छत्रधारणोपानत्परिधानादिप्रमादपरो विद्यते पर्षदो बहिस्तात् । सोऽग्रे अस्यां चतुर्विंशतौ प्रथमो वासुदेवस्त्रिपृष्ठनामा भविष्यति । महाविदेहे मूकायां पुरि चक्री, भरते चास्मिन्नेव चतुर्विंशतितमो वीरनामा जिनश्च भविष्यति । ततो भरतो हृष्टो झटिति उत्थाय तत्र गत्वा तं मरीचि त्रिः प्रदक्षिणीकृत्य प्राह-भवान् त्रिपृष्ठो नाम वासुदेवो, मूकायां चक्री, अस्मिन्नेव भरते चतुर्विंशतितमो वीरो जिनो भविष्यति, तेनाहं तुभ्यं वन्दमानोऽस्मि, एवमुक्त्वा मरीचिं नत्वा खुत्वा च भरतः पुरीमध्ये गतः । तद्वचनं श्रुत्वा मरीचिः प्राह - अहो मदीयं कुलमुत्तमं यतो मे पितामहो युगादीशः, पिता तु भरतः, अहं च क्रमात्सार्वभौमः अत्र चान्तिमो वीरजिनेन्द्रो भविष्याम्यहमेव । एवं जल्पनेन तेन मरीचिना नीचगोत्रकर्मार्जितम् । यतः ॥ "जातिलाभकुलैश्वर्य-बलरूपतपःश्रुतैः । कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ॥ १ ॥ " ऋषभदेवस्य प्रथमो गणधरः पुण्डरीकाभिधचैत्रशुद्धपूर्णिमायां पञ्चकोटियतियुतो विमलगिरौ मुक्तिमगात् । ततो भरतेन तत्राभ्येत्य श्री - Jain Education International For Private & Personal Use Only श्रीआदीश्वर चरित्रम् | ॥ १९ ॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy