________________
जितवानपि मोहराजम् । ज्ञानश्रियः सपदि संघटनैकहेतु-वीरः स बाहुबलिरेव मुदं तनोतु ॥ २॥ भग्ने श्रीभरते स्वपत्तिसदृशैराजन्मपुष्टैर्मदै-स्तद्वैरादिव निर्जितं विगणयन् स्खं श्रीसुनन्दाङ्गजः । हत्वा तान् जिनवाक्यशाणकषणात्तीक्षणेन बोधासिना, वीराणामथ पूर्वकेवलभृतां मुक्तिं गुणैर्लब्धवान् ॥३॥ हेतोः केवलसम्पदः किल तपस्यन्तं जिनोक्ते । क्षणे, श्रीमद्बाहुबलि समेत्य मुदिता ब्राह्मीयुता सुंदरी । वल्लीव्यूहविभूषितं मुनिवरं दभकुम्भस्थला-दुत्तार्याथ तपोवशंवदतमामुहाहयामास ताम् ॥ ४॥ अथ कदाचित् पञ्चभिः शकटः ऋषभदेवपाधैं गत्वा भरतोऽवग्-स्वामिन्नद्यान्नदानग्रहणेन मामनुगृहाण । ऋषभोऽवग्-छत्रधरराज्ञामाहारः साधनामधुना न कल्पते, तेन भवता साधर्मिकाणां धर्मतत्पराणामन्नं देयम् । ततो भरतेन ये ये धर्मिष्ठाः श्राडा ब्रह्मव्रतधारिणो भवन्ति, ते ते स्वगृहे भोज्यन्तेस्म । अथ सूपकारेण विज्ञप्तं स्वामिन् ! बहवो ब्रह्मचारिणो भोक्तुमायान्ति तेनास्माभिरन्नं दातुं तेभ्यो न शक्यते । ततो भरतेन ये ये ज्ञानदर्शनचारित्रस्वरूपं जानन्ति, तेषां काकिणीरत्नेन कण्ठे रेखात्रयं कारितमाभज्ञानार्थम् , ये नवतत्त्वविदस्तेषां नव, क्रमातेषां यज्ञोपवीतं जातम् । अन्येद्युभरतेनोक्तम्-भगवन् ! भवत्तुल्याः । कियन्तोऽर्हन्तो भविष्यन्ति ? प्रभुः प्राह-होही अजिओ संभव-अभिनंदणसुमइसुप्पभसुपासो । ससिपुष्फदंतसीयल
Jain Education
leal
For Private & Personel Use Only
liww.jainelibrary.org