________________
॥ श्रीभरतेश्वर वृत्तिः ॥
॥ १८ ॥
Jain Education
| कायोत्सर्गे तस्थौ बाहुबलिः । दध्यौ च बाहुबलिः - मम पूर्व अष्टानवतिर्भ्रातरो व्रतं ललुः । यदि केवलज्ञानं विना तत्र भगवतः सभीपे गम्यते मया तदा ते लघवोऽपि भ्रातरो लब्धकेवलज्ञाना नम्यन्ते इति मत्वा मौनी बभूव भरतस्तत्रैत्य, पदयोर्लगित्वा भो भ्रातर्मुञ्च मौनं राज्यमङ्गीकुरु बाहुबलिं क्षमयित्वा भरतः प्राह-अहं त्वभाग्यवानस्मि । यत्त्वं मया कटकवधकरणादिना खेदितोऽसि । ततो भरतः तस्य बाहुबलेः पुत्राय सोमाय राज्यं वितीर्य, स्वपार्श्वात् हितबुद्धयाऽधिकराज्यग्रामदानात् प्रमोदयामास । ततो भरतः स्वपुरमभ्येत्य द्वादशवर्षीयराज्याभिषेकं स्वस्मिन् कारयामास । इतो बाहुबले : कायोत्सर्गस्थस्य वर्षं जातं विनाऽशनादिना । इतः श्रीनाभेयेन ब्राह्मीसुन्दर्यौ बाहुबलि - | प्रतिबोधाय प्रेषिते । ताभ्यां तत्राभ्येत्योक्तम् । 'हत्थीउ उत्तर भाय' । इति श्रुत्वा बाहुबलिर्दध्यौ । वर्षे जातं ममात्र स्थितस्य हस्त्यारोहणं विना । ततो निजभगिन्योः शब्दमुपलक्ष्य बाहुबलिर्दध्यौ मानगजमहमारूढोऽस्मीति ज्ञाप - | | यितुमिहागते स्तो भगिन्यौ । ततो मानं मुक्त्वा यावञ्चलितुं पादौ दत्ते तावत् सर्वकर्मक्षयात् केवलज्ञानं प्राप || ततो नाभेयपर्षदि गत्वा, परमेश्वरं प्रदक्षिणीकृत्य, केवलिपर्षदि उपविष्टो बाहुबलिः । उक्तञ्च " कियन्तो बहिरङ्गा| श्रान्तराश्च षडपि द्विषः । तपसा तीव्रतीत्रेण यत्नेनाशु विजिग्यिरे ॥ १ ॥ नासीरवीरभरतं समरेऽचिरेण, यो हेलयैव |
I
For Private & Personal Use Only
श्रीआदीश्वर चरित्रम्
11 26 11
ww.jainelibrary.org