________________
Jain Educati
तिष्ठन्तु, शिबिरं गव्यूतइये स्थाप्यते तदा, यदाऽहं बाणं मुञ्चामि तदा १०७ बाणवेधिभिर्बाणा मोचनीयाः । गर्द भीविद्यायाः शब्दं कुर्वाणाया मुखं बाणैर्भरिष्यते । ततो रुषा राजानं पादाभ्यां हत्वा मुखे नीति कृत्वा गमिष्यति । राजा मरिष्यति राज्यं गृहीष्यते । एवं स सूरिः शब्दवेध्यादिनरान् मीलयित्वा गर्दभिल्लं जिगाय । शक साहाय्यात् उज्जयिन्या राज्यं वृद्धशकाय सूरिर्ददौ सर्वम् । ततः सूरिः सरस्वतीं सुशीलां अन्तःपुरादानिनाय । सर्वेषां भूपानां | पृथग पृथग देशान् विभज्य ददौ सूरिः । यस्य राज्ञः पार्श्वे स्थितः तस्योज्जयिनीराज्यं ददौ सूरिः अथवा स्वभागिनेयस्य ददौ । ततो गुरुपार्श्वे गत्वा श्रीकालिकाचार्यः प्रायश्चित्तं गृहीत्वा पुनर्वेषं गृहीत्वा चिरं भव्यजीवान् प्रबोध्य स्वर्गसुखं प्राप । सरस्वत्यपि चारित्रं प्रपाल्य स्वर्गे गता । इति कालिकसूरिकथा समाप्ता ॥ ४० ॥
स्वस्थानस्थोऽपि सद्भावात्, शाम्बः श्रीकृष्णनन्दनः । श्रीनेमिवन्दनात् प्राप, फलं मुक्तिसुखप्रदम् ||१|| तथाहि - द्वारिकायां पुरि कृष्णस्त्रिखण्डाधिपो राजा राज्यं करोतिस्म न्यायाध्वना । तस्य रुक्मिण्यादयो बह्व्यः | पत्न्योऽभूवन् । अन्येद्युः रुक्मिणी स्वप्ने बलक्षवृषभशालिनि विमाने स्वं निषन्नं दृष्ट्वा मुरारये कथयामास, कृष्णोऽवग्- तव पुत्रो भविष्यति । रुक्मिणी कृष्णजल्पितं श्रुत्वा कलिकारिका काऽपि स्त्री सत्यभामाया अग्रे जजल्प । साऽपि
tional
For Private & Personal Use Only
www.jainelibrary.org