SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Jain Education शिक्षा दीयते । यदि सति सामर्थ्ये जिनमतप्रतिकूलं यो न हन्ति तस्य पाराञ्चितं पापं लगति । यतः - " देवगुरुसंघकज्जे, चुन्निज्जा चक्कवट्टिन्नपि । कुवीओ मुणी महप्पा, पुलायलद्धीइ संपत्तो ॥ १ ॥ " इत्याद्युक्त्वा स्त्रवेषं साधूनां समर्प्य श्रीसङ्घ मुत्कलाप्य शककूले गतः । तत्र स्वकलां दर्शयित्वा राज्ञो मिलितः, सुभाषितैर्भपं रञ्जयामास कालिकसूरिणा रञ्जितो राजा जगौ भवतो यत्कार्य विद्यते तन्निगद्यताम् । गुरुः प्राह--अवसरे कथयिष्यते । | एकदा शक भूपतेः सभायामुपविष्टस्य साधनसिंहभूपेन कच्चोलकं क्षुरीयुतं प्रेषितं समागतं, तदा राजा कृष्णमुखो|ऽभूत । तत्कञ्च्चोलकं मस्तके कृत्वा साधनसिंहस्य सेवकस्य सन्मानं कृत्वोत्तारकं ददौ । ततो रहसि कालिकाचार्य: | शकं पप्रच्छ कच्चोलकागमनवृत्तान्तं, ततो राज्ञोक्तम् । अस्माकं षण्णवतिभूपानामेको मुख्यभूपः साधनसिंहोऽस्ति बली, स च यदास्माकं राज्ययोग्याङ्गजो भवति, तदा स भपः कच्चोलकं क्षुरीयुतं प्रेषयति तदा शीर्ष क्षुर्या छित्वा प्रेष्यते । ततः सूरिराह एवं को मूर्खो निजं शिरो दत्ते, जीवद्भिः सुखं लभ्यते । ततो राजाऽवग्- किं क्रियतेऽ| स्माभिः । ततः सूरिराह - यदि मम कथितं क्रियते, तदा वो जीवितं भवति चिरम् । ततो- भूपोऽवक् कथयास्माकं जीवनोपायं त्वं तु विज्ञोऽसि । ततः सूरिराह--उज्जयिनी पुरी वर्याऽस्ति तत्र षण्णवतिर्ग्रामाः सन्ति, तेन तत्र यूयं tional For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy