SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ प्रमादः पातयत्येव यतिं संसारसागरे ॥ १ ॥ उक्तं च - " चउदसपुत्री आहारगा य, मणनाणिवीयरागा य। हुंति पमायपरवसा, तयणंतरमेव चउगइआ ॥ २ ॥ न तं चोरा विलुप्पति, न तं अग्गी विणासए । न तं जूएण हारिज्जा, जं धम्मंमि पमतओ ॥ ३ ॥ " एवं नोदिता गुरुभिः साधवो न प्रमादं तत्यजुः । ततो गुरघो | दध्युः - अभी साधवः प्रमादिनस्त्याज्या एव । यतः - " छंदेण गओ छंदेण, आगओ चिट्ठउट्ठिअ छंदेण । छंदेण बट्टमाणो, सीसो छंदेण मोतव्व ॥ १ ॥ एवं ध्यात्वा साधून् प्रमादं त्याजयितुं शय्यातरस्य श्राद्धस्य शिक्षां | दत्वा गुरवो रात्रौ छन्नं निर्गत्य सुवर्णभूमौ स्वशिष्यसागरचन्द्रसमीपे ययुः । तदा वृद्धं साधुमागच्छन्तं दृष्ट्वाऽभ्युत्थाय | सागरचन्द्रसूरिः प्राह-अस्मिन् विजने भवद्भिः स्थीयताम् । ततो गुरवस्तत्र स्थिताः । सागरचन्द्रेण नोपलक्ष्यते । व्यख्यानं कृत्वा सागरचन्द्रसूरिः प्राह - मयाऽद्य व्याख्यानं कीदृक् कृतम् । गुरवो जगुः - विशिष्टम् । ततः सागरचन्द्रः स्वव्याख्यान कलया हृष्टः । ततो द्वाभ्यां सूरिभ्यां धर्मस्थापनोत्थापनाभ्यां विवादः कृतः । सागरः प्राह - नैवास्ति धर्मः परलोकशर्म्मकृत्, न तावदास्ते परलोक एव सः । साक्षादभावात् परलोकिनस्ततः, पुण्यस्य पापस्य भुनक्त कः फलम् ॥ १ ॥ कालिकसूरिराह - अहं सुखी दुःख्यभूवमित्युदित्वरः, संप्रत्ययः कस्यचनापि जातुचित् । नायं - Jain Educational For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy