________________
भानुश्री गुकच्छे जितारिभूपस्य दत्ता । तस्याः सुतौ बलमित्रभानुमित्रौ । तयोर्भागिनेयो बलभानुरभूत् । al एकदा तत्र गुरवः कालिकसूरय आगताः। तत्र धर्मोपदेशं श्रुत्वा बलभानुभक्षा जग्राह । तदा गुरुसत्कैः || || क्षुल्लकैर्गङ्गाधरः पुरोहितो वादे जितः । एकदा गुरवो विहारं कृत्वा तत्रागताः, बलमित्रभानुमित्रयोराग्रहात् गुरवस्तत्र चतुर्मासी स्थिताः । ततो गङ्गाधरपुरोहितस्तान् गुरून् कर्षितुमिच्छन् पूर्ववैरात् भपाये छन्नं जगौ-देव ! ला इमे जइ पुज्जा, भमंति जहिं तत्थ गच्छिरंमि जणे । गुरुपयअक्कमगकया, होइ अवन्ना दुरिअहेऊ ॥ १॥ उक्तञ्च “ यत्र देवर्षिपूजादेः क्रियतेऽतिक्रमः क्वचित् । तच्चेत्सहते राजा, घोरं तत्र भयं भवेत् ॥१॥
राजाऽवक्-किं क्रियते गुरवः सुस्थिताः, तेषां चलनविषये वक्तुं न युक्तम् । पुरोहितोऽवग्-गृहे गृहे नवीना वया रसdवती कार्यते । यदा साधवो विहर्तुमायान्ति तदोच्यते-श्रीपूज्यपादकृते रसवती कृताऽस्ति । ततोऽनेषणां ज्ञात्वा गुरवः । स्वयमन्यत्र गमिष्यन्ति । भपेन तथा कारिते गुरवः प्रतिष्ठानपुरे चातुर्मासकमध्ये गताः प्रवेशमहोत्सवोऽभूत् । तत्र शालिवाहनो भूपः पृथिवीं पालयतिस्म । पर्वृषणापर्व समीपं समायातं, तत्र भूपोऽवग्-भगवन् ! पर्युषणापर्व कस्मिन् दिने करिष्यते गुरवो जगुः-भाद्रसुदिपञ्चम्याम् । तदा भूपोऽवक् पञ्चम्यामबेन्द्रमहोत्सवो भवति तेन
JainEduca
For Private
Personel Use Only
Twww.jainelibrary.org