________________
॥ श्रीभरतेश्वर वृत्तिः॥ ॥ १७९ ॥
Jain Education
| सप्तदिनेभ्यः पुरतो जीविष्यामि तदा कालिकाचार्यममुं हनिष्यामि । ततस्तस्य सूरेरन्तिके स्वसेवकान् मुक्त्वा स दुष्ट - मतिर्दत्तः सौधमध्ये सप्तदिनानि स्थातुं स्थितः । इतो जितशत्रुभूप भक्तैर्जनैर्जितशत्रुभूपो राज्यदानार्थं प्रकटीचक्रे प्रच्छन्नं । इतो रक्ष्यमाणेषु राजमार्गेषु अशुचिषु वस्तुषु अपसार्यमाणेषु सप्तमे दिने दत्तो राजा हृष्टस्तुरगारूढोऽ|ष्टमदिन भ्रान्त्या धियमाणातपत्रो राजमार्गे निस्ससार । इतो मालिकः पुष्पपूर्णकरण्डकयुतो राजमार्गे समागात् । | भेर्यादिनिनादैः श्रुतमात्रैरकस्मात्तस्यात्यन्तं मलोत्सर्गचिन्ताऽभून्मालिकस्य । लोकबाहुल्यादन्यत्र गन्तुमशक्नुवन् लब्ध| लक्षतया त्वरितं मलोत्सर्गे तत्रैव कृत्वा तस्योपरि पुष्पपुञ्जं मुक्त्वा मालिकोऽग्रतो गतः । तदा राज्ञो दत्तस्य तस्मिन् | मार्गे गच्छतस्तुरङ्गमखुरोत्खातो विट्लेशो वदनेऽविशत् । स राजा दत्तस्तेन प्रत्ययेन पश्चाद्यावद् गृहाभिमुखं समायाति, तावन्मंत्रिनियुक्तैः सेवकैर्दत्तो हतः, स दत्तो मृत्वा सप्तमनरकं गतः । स जितशत्रुभूपः स्वराज्ये | उपविष्टः । ततस्तं कालिकाचार्य भूपो निषेवतेरम, जिनधर्मं चाङ्गीचकार ॥ इति कालिकाचार्य कथा ||
श्रीपुरे प्रजापालभूपस्य राज्ञी पुत्रं प्रासूत । तस्याभिधानं कालिककुमार इत्यभूत् । पुत्री तु भानुश्रीरासीत | कालिक कुमारः श्रीगुरुपार्श्वे धर्मे श्रुत्वा दीक्षां ललौ । स च बहुश्रुतोऽभूत् गुरुभिः सूरिपदं दत्तम् । इतो राज्ञा
For Private & Personal Use Only
श्रीकालि
काचार्य
कथा ।
॥ १७९ ॥
www.jainelibrary.org