SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ - 6 चन मानवाः ॥१॥" आत्तराज्यं दत्तं पापिनं प्रकृतिर्न विश्वसितिस्म । जितशत्रुरन्यत्र प्रच्छन्नं स्थितः । राजचक्र समाक्रम्य, दद्रुगूढोऽतिमूढधिः । अविनीतः प्रकृत्याऽभूत्, दत्तो द्वेषस्य भाजनम् ॥१॥ स दत्तो राजा यागं कारयन् भूरिजीवान् निरन्तरं हन्ति । यथा यथा यागे हन्यमानानां पशूनां रुधिरप्रवाहः प्रससार तथा तथा स दत्तोराजा जहर्ष । अन्यदा श्रीसूरिपदप्राप्तः कालिकाचार्यस्तत्रागात् । तमागतं तत्र सूरिं श्रुत्वा दत्तस्तत्राययौ । तेन राज्ञाऽन्यदा यज्ञफलं पृष्टो गुरुरुवाच-धर्मात्-त्रिविष्टपप्राप्तिरधर्मान्नरकप्राप्तिध्रुवम् । ततो भूयोऽपि तेन राज्ञा यज्ञफलं पृष्टो गुरुर्नरकमादिदेश । तव श्वभ्रगतिर्भविष्यति । यतः-" अस्थि वसति रुद्रश्च, मांसे वसति जनार्दनः ।। शुक्रे वसति ब्रह्मा च तस्मान्मांसं न भक्षयेत् ॥१॥ तिलसर्षपमात्रं त, मांसं यो भक्षयेन्नरः । स निवर्तते नरकं यावच्चन्द्रदिवाकरौ ॥२॥" भो राजन् ! सप्तदिनमध्ये यदि तवानने विष्टालेशः पतिष्यति तदा त्वया ज्ञातव्यं नरकगतिः। स्वस्य । तदानी रुष्टोराजाऽवग भो मातुल | तव का गतिर्भविष्यति । गुरुराचष्ट-अहं व्रतं प्रपाल्य वगै यास्यामि। तदानीं दत्वेन स्वसेवकपादिसिना हन्यमानोऽपि श्रीकालिकाचार्यों जगौ-यागो नरकाय भवति । उक्तं च-" दत्तेण पुच्छिओ जो, जन्नफलं कालओ तुरमणीए । समयाहियाहिएणं. सम्म बुइयं भयंतेणं ॥१॥" दत्तेन ध्यातं यद्यहं Jain Educa ! For Private & Personal Use Only T ww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy