________________
॥ श्रीभरते. श्वर वृत्तिः ॥
मम सर्वस्वं गतम् । ममासौ देशस्तु तातेनार्पितोऽस्ति । अस्मिन् देशे भरतस्य का तृप्तिः ? दूतोऽवग्-एवं वक्तुं न श्रीआवीश्वर युज्यते भवतोऽधुना गजाश्वरथपत्त्यादिभिः स तव भ्राता बलिष्ठो विद्यतेतराम् । यदि त्वं तत्र समेष्यसि तदा तुभ्यं || बहून् देशान् दास्यति । यदि त्वं न तत्रैष्यसि सोऽत्र समेष्यति तदा त्वां हत्वा देशं ग्रहीष्यति अधुना तव तस्य सेवां कर्तुमवसरोऽस्ति, बलिष्ठो विद्यते । बाहुबलिर्जगौ-यदाहं भरतेन समं रममाणो गङ्गातीरे भरतमुत्पाट्य हस्तेन ।
दुरं क्षिप्त्वा पुनस्तं पतन्तं स्वहस्तेनाधरिष्यं तत्तस्य किं विस्मतम् । एवं मया तत्र पूर्व भरतो बहशो जितः।। अधुना किं असौ आत्मीयं बलं ज्ञापयति । दूतोऽवग्-यस्य सेनया चलन्त्याऽधुना पृथ्वी कम्पते शेषोऽपि कम्पते । तीव्रभारत्वात, वैताढ्यपर्वतवासिनमिविनमिविद्याधरमागधादिबहून् बलिष्ठान् स साधयामास । ततो दूत एवं जल्पन् । हक्कितो बाहुबलिना । ततो दूतो भरतपार्श्वे गत्त्वा सर्व बाहुबल्युक्तं जगाद । ततो भरतः संनह्य चचाल यदा तदा । बहवोऽपशकुना बभूवुः, पश्चाच्छकुना वर्या बभूवुः । भरतो बहुलीदेशे गत्वा तक्षशिलां वेष्टयित्वा स्थितः। इतो| बाहुबलिः सभायामुपविष्टोऽन्यचक्रं समागतं श्रुत्वा मनसि किमपि भयं नानैषीत् । यदा बाहुबलियुद्धाय निर्गतः, तदा सुमतिसागरमन्त्री प्राह-एवमकस्माद्रणं कर्तुं न युज्यते पश्चादपसार्य चमूं भुक्त्वा पश्चात् सङ्ग्रामः क्रियते । ततः
॥१७॥
Jain Education international
For Private & Personel Use Only
www.jainelibrary.org