SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३६३ सूपकाराः, १८ श्रेणयः अनेके व्यवहारिणः, इत्यादिऋद्धिः, षष्टिवर्षसहस्रैः सर्वा दिशश्चक्रिणा साधिताः । कदाचित् । सुन्दरी भगिनी कृशाङ्गी दृष्ट्वा तस्याः परिवारो भरतेन दुर्बलकारणं पृष्टोऽवग्-युष्माकं दिग्यात्राचलनादनु अनया आचाम्लान्येव क्रियमाणानि सन्ति, षष्टिवर्षसहस्राणि जातान्यस्यास्तपस्तपन्त्याः । प्रभुणा युगलधर्मे निषिद्धेऽपि खं सौन्दर्य सोदरस्य मोहजनकं (च) विमृशन्ति तन्निग्रहाय सा सती सुन्दरी तपश्चकार । अहो नाभेयवंशेऽस्मिन् , धर्माधिक्यमनर्गलम् । यत्तद्विधेन तपसा, बाल्येऽरमत सुन्दरी ॥ १॥ समुद्दधाराशु तपःकृशाऽपि, मोहाम्बुराशौ भरतं । निमग्नम् । महीभृतं शीलगुणेन तेन, बलीयसी बाहुबलेः स्वसाऽपि ॥ २ ॥अथ भरतेन क्षमयित्वा, विसृष्टा सुन्दरी । |श्रीऋषभपार्श्वे दीक्षां जग्राह । अथ चक्ररत्ने आयुधशालायामप्रविशति मन्त्री भरतेन पृष्टश्चक्ररत्नस्यायुधशालायामप्रवेशहेतुं प्राह-भवतो बाहबलि_ता सेवां कर्तुमागतो नास्ति, तेनेदं चक्ररत्नमायुधशाला न प्रविशति । ततो भरतेन प्रेषितो दूतो बाहुबलिपार्श्वे गत्वा जगाद-भवतो भ्राता भरतः षट्खण्डं साधयित्वा स्वपुरं प्राप्तोऽस्ति ।। अन्येषां राज्ञां गजतुरङ्गमादिदेशदानान्मनांसि तोषयामास भरतः । त्वं नागाः, भ्रातुर्मिलनार्थमपि । त्वमपि तत्रागच्छ भूरिदेशादि दास्यति भ्राता । बाहुबलिः प्राह-कः कस्य भ्राता । अहमपि यदि तस्य भ्रातः सेवां करिष्ये तदा For Private Personel Use Only Yiww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy