SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- नायामे चर्मरत्ने शिबिरं निवेश्य तदुपरि तत्प्रमाणं छत्रं संनिवेश्य प्रकाशाय छत्रदण्डमूले मणिं निधाय च सप्त। श्रीआदीश्वर श्वर वृत्तिः॥ चरित्रम्। दिनानि यावत् चक्रिणा स्थितम् । ततो यदा सप्तदिनान्ते चर्मरत्नात् चक्र निर्गतं तदा लोकैरुक्तम् । ब्रह्मत इदं अण्डं निर्गतं, इति प्रघोषो जातः। ततः क्षुद्रहिमवगिरिनाथं संसाध्य पश्चात् भरतो चचाल । वैताब्याद्रिदक्षिणोत्तरस्थौ नमिविनमी द्वादशवर्षयुद्धविधानेन जिगाय भरतः । विनमिः-स्वां पुत्री सुभद्राभिधां दण्डदानपुरस्सरं भर ताय ददौ । उत्पन्नवैराग्येण स्वपुत्रौ स्वपदे निवेश्य नमिविनमी-श्रीऋषभपादान्ते प्रव्रज्यां ललतुः । ततो गङ्गातीरे Kआवासेषु दत्तेषु सुषेणेन सेनापतिना तदुत्तरतटे पूर्वरीत्या साधिते देव्याऽनुरक्तया समं चक्री वर्षसहस्रं रेमे । पश्चात | स्वपुरी प्रत्यागच्छन् गङ्गातटे नवनिधानानि भरतः प्राप । तेषामेतानि नामानि-नैसर्प १ पाण्डुकश्चाथ २, पिङ्गलः ३ सर्वरत्नकः ४ । महापद्म ५ काल ६ महा-कालौ ७ माणवक ८ शङ्खको ९॥१॥ ते प्रत्येकं दैयेण द्वादशयो. जनानि विस्तरेण च पल्योपमायुषः। ततश्चक्री महोत्सवपुरस्सरं स्वां राजधानीमयोध्यामाययौ । चक्ररत्नपूजापुरस्सरं भरतस्य च द्वादशवर्षाणि राज्याभिषेकः कृतः। एवंविधा विभूतिरभूदरतस्य-चतुःषष्टिसहस्रा अंतःपुर्यः, सपादलक्षपिण्डविलासाः, चतुरशीतिलक्षाः प्रत्येकं गजतुरङ्गमरथाः, ९६ कोटिपत्तयः ग्रामाश्चैतावन्तः, ७२ सहस्रपुरवराः, । ॥१६॥ Jain Education For Private & Personel Use Only Mw.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy