________________
पूर्ववत् प्रभासं सिन्धुदेवञ्च भरतः साधयामास, ततो वैताढ्यस्य दक्षिणनितम्बे शिबिरं स्थापयामास । तत्र पूर्वरूढ्या । वैताढ्यदेवमप्याराध्य तमिश्रागुहासमीपमाससाद, तद्गुहारक्षकं कृतमालं देवमाराध्य दक्षिणसिन्धुनिष्कुटं साधयितुं सेनापतिं सुषेणाहूं प्रेषयामास । ततः सकटकः स सुषेणो जलस्थलदुर्गनिवासिनः सिंहबर्बरादीन् म्लेच्छाधिपतीन् निजाज्ञावशंवदान् कृत्वा तेषामुपायनान्यादाय स्वस्वामिपाचँ समागात् । अथ तमिश्रागुहोद्घाटनाय सप्रसादं देवं भरत आराधयामास, तत्र गत्वा तमिश्रागुहाहारं दण्डरत्नेनोद्घाटयामास । चक्री करिरत्नमारुह्य तत्कुम्भे मणिरत्नं निधाय गुहांतः सञ्चरन् हादशाश्रिणा द्वादशयोजनप्रकाशमयेन काकिणीरत्नेन गोमूत्रिकाक्रमात् गुहाभित्त्योयोजनान्ते योजनान्ते पञ्चधनुःशतायामानि एकोनपञ्चाशन्मण्डलानि तमश्छिदे भरतो व्यधात् । ततो
यत्र शिलाऽपि क्षिप्ता तरति-तुम्बीफलवत् सा उन्मना नदी, यत्र क्षिप्तं तुम्बीफलमपि शिलाभवन्मज्जति सा निमग्ना नदी. ते हे तटिन्यौ वाईकिगणिविहितया पद्यया सकटको भरत उत्ततार । पञ्चा
शत् योजनमानाया गुहाया बहिर्निर्गत्य तत्रस्थान् सर्वान् किरातादीन रिपून् प्रबलानपि सेनापतिर्जिगाय । अथ तत्र केचित् किराताः खगोत्रदेवीमाराध्य द्वादशयोजनमितामतीव वृष्टिं कारयामासुः। तज्जलोपद्रवरक्षणाय द्वादशयोज
Jain Education in
For Private & Personel Use Only
TAMw.jainelibrary.org