SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः ॥ १७७ ॥ किञ्चित् सिद्धान्तभणनाराधनादर्थवीक्षणात् । लभते सुखदं स्थानं, मनकक्षुलवत्स्फुटम् ॥ १ ॥ तथाहि--शय्यंभवभट्टो यज्ञं कारयति । तदा श्रीप्रभवस्वामिना स्वगच्छमध्ये तादृशं पट्टस्थापनाह दृष्ट्वा यज्ञकर्मकृच्छय्यंभव उपयोगेन ज्ञातः । साधुद्वयं प्रेष्य अहोकष्टमहोकष्टमिति ज्ञापिते स प्रष्टुं लग्नः । ताभ्यामुक्तंअस्मद्गुरवो विदन्ति । गुरुभिरूचे - यूपान्तस्तत्वमस्ति । तत्र श्री शान्तिनाथप्रतिमां प्रादुष्कृतां वीक्ष्य गुरुपार्श्वे दीक्षां - जग्राह तदा । पूर्वे तस्य पत्नी साधानाऽभूत् । ततस्तया पुत्रोऽसावि । तस्य मनक इति नाम ददौ माता । मनकः | क्रमाद्वर्धमानो मात्रा लेखशालायां मुक्तः । यतः - " प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये नार्जितो धर्मः, चतुर्थे किं करिष्यति ॥ १ ॥ " अन्येद्युरपितृकमिति लेखशाल कैर्हसितो मनकस्ततो दोदूयांकुर्वाणो मातृपार्श्वे गत्वा जगौ - मामपितृकमिति लेखशालकाः कथं हसन्तिस्म, मम पितुः किं नाम कुत्र गतोऽस्ति इति मातरमपृच्छन्मनकः । माता तमुवाच - तव पित्रा जैनदीक्षा गृहीता । अधुना शय्यंभवसूरिर्जिनतत्त्वज्ञो भव्यजीवान् प्रबोधयन्नस्ति पाटलीपुरे । ततो मनको मातरमापृच्छ्य पितृमिलनार्थे चलितः । पाटलीपुरसमीपे | मनको गतः । इतः श्रीशय्यंभवसूरिं तनुगमनिकायामागतं वीक्ष्य मनकस्तं पप्रच्छ - शय्यंभवः सूरिः कास्ति, Jain Education International For Private & Personal Use Only श्रीनुदायनराजर्षि - चरित्रम् । श्रीमनक क्षुलमुनिचरित्रम् । ॥ १७७॥ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy