________________
| मायां विधाय प्राह- अहमपि श्राद्धः पर्युषणापर्व विस्मरितं दुःखात् । ततो ममाप्युपवासो भवतु । ततः प्रद्योतनप्रोक्तं राज्ञोऽग्रे तेन निवेदितम् । ततः राज्ञा साधर्मिकोऽयं ममेति कृत्वा क्षामणकं विना प्रतिक्रमणकं न शुध्यति । इति | ध्यात्वा च प्रद्योतनो बन्धनाच्छोटितः । मस्तके तस्य स्वर्णमयं पट्टबन्धं कारयित्वा क्षामणकं च कृत्वा उदायनः | प्रद्योतनं पश्चात् प्रेषयामास । ततः प्रद्योतनो राजा जैनधर्म शुद्धमारराध । उदायनः स्वपुरं प्राप्तः । उदायनः परमार्हतोऽन्यदा श्रीवीरजिनपार्श्वे धर्ममिति शुश्राव । मज्जं विसयकसाया, निद्दा विगहा य पञ्चमी भणिया । एए पञ्च पमाया, जीवं | पाडंति संसारे ॥ १ ॥ आर्यदेशकुल रूपबलायु - बुद्धिबन्धुरमवाप्य नरत्वम् । धर्मकर्म न कराति जडो यः, पोतमुज्झति | पयोधिगतः सः ॥ २ ॥ इत्यादि धर्मोपदेशं श्रुत्वा प्राप्तवैराग्यः स्वभागिनेयं स्वराज्ये निवेश्य श्रीवीरपादान्ते दीक्षां | जग्राह । ततो नानातपः कुर्वाणः क्रमाद्भूपो वीतभये समागात् । भागिनेयेन राज्ञा स्वराज्यापहरणशङ्कितेन हि पारणेषु | विषं दापितं प्रपंचेन । शासनदेवतायाः सानिध्यात्समुत्तीर्णविषः प्रान्ते महाध्यानपरः सर्वकर्मक्षयं कृत्वा मुक्ति यास्यति । | उदायनोऽयं चरमराजर्षिः । ततोऽभयकुमारः समुत्थाय तं चरमराजर्षिभूपं भूयसीभक्त्या प्रणनाम । ततः क्रमादायुःसमाप्तौ । | उदायनो मुक्तिं गतः । प्रभावतीजीवोऽपि मुक्तिं गमिष्यति । इति उदायनप्रभावती कथा समाप्ता ॥ ३८ ॥
1
Jain Education International
For Private & Personal Use Only
99999
www.jainelibrary.org