SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ॥श्रीभरतेश्वर वृत्तिः॥ ॥१७६॥ मनोगतभावं रूपं च चण्डप्रद्योतनाग्रे निवेदितम् । ततः प्रद्योतनोऽनिलगिरिकुञ्जरारूढो रहोवृत्त्या तत्रागत्य दासी । श्रीनुदायन राजार्षदेवाधिदेवप्रतिमायुतां लात्वा स्वस्थाने ययौ । उदयनो निजेभमदगलनादिना दासीप्रतिमाहरणस्य स्वरूपं ज्ञात्वा । चरित्रम् । चुक्रोध । ततः संनह्य महासेनायुतः उदायनः प्रद्योतनाधिष्ठितामवन्तीं ययौ । तत्र दासी प्रतिमायुता मार्गिता । स यदा नार्पयति । तदा महायुद्धे जायमाने उदयनः प्रद्योतनं बबन्ध रणे । दासी नष्टा प्रतिमा तु ततः स्थानान्न । चलिता यदा तदा उदयनपत्नी प्रभावतीदेवः स्वर्गादागत्य प्राह-भो उदयन ! त्वन्मरणादनु वीतभये पत्तने धूलिकोटिः पतिष्यति। तेन न तत्र नेतव्या, अत्रैव तिष्ठतु । तथा कृतं तेन उदयनेन । मम दासीपतिरेष इति अक्षराणि प्रद्योतनमस्तके दापयित्वा खपुरं प्रति चलितः, ततो मागें पर्युषणापर्व समागतं तत्र राजा स्थितः, प्रभोः पूजा कृता राज्ञा तस्मिन् हि दिने क्षपणं कृत्वा सूपकारायादिष्टम् । प्रद्योतनमापृच्छ्य यत्तस्य रोचते तहोजनं तस्य । देयम् । ततः सूपकारः प्रद्योतनपार्थे गत्वाऽवग-भवतोऽद्य का रसवती रोचते । तदा प्रद्योतनेन चिन्तितमद्य यावन्न । किमपि पृष्टं राज्ञा सह भोजनं ममाऽप्यभूत् । नूनं विषं दास्यत्यसौ मम । एवं ध्यात्वा प्रद्योतनः प्राह-पुरा एवं कदाऽपि न पृष्टमधुना एवं कथं पृच्छ्यते ? ततस्तेन राज्ञोक्तं सर्वं पर्युषणावृत्तान्तं सूपकारेणोक्तम् । ततः सोऽपि ॥१७६॥ Jain Education For Private Personal use only S w.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy