SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ नागिलोऽपि भग्ने याने ( मित्रे मृते ) प्रव्रज्य तपस्तप्त्वा द्वादशमे खर्गे सुरोऽभूत् । अथाच्युतदेवो नन्दीश्वरे यात्रायां । गच्छन् तं व्यन्तरं गले बद्धमृदङ्गमुपलक्ष्य प्राह-किं जातमिदं तव । व्यन्तरेण तेनोक्तं-दुःखे पतितोऽस्मि निस्तारय मामस्मात्कष्टात् । ततो देवेनोक्तं-यदि त्वं श्रीदेवाधिदेवप्रतिमा नवीनां कृत्वा गोशीर्षचन्दनादिना प्रपूज्य क्वापि तां प्रपूज्यमानां कारय । ततस्तवास्मात्कर्मणो निस्तारो भवति । तदा स व्यन्तरस्तथा कृत्वा तामेव प्रतिमा केनचित् सांयात्रिकोपान्तेन वीतभये पत्तने प्रापितवान् । तां प्रतिमां च प्रभावत्यै अर्पयामास स सांयात्रिकः । बहकालं तां प्रतिमा प्रभावती प्रपूज्यासन्नमृत्युं ज्ञात्वा श्रीदेवाधिदेवप्रतिमां दास्याः कुब्जिकायाः पूजायै अर्पयामास । सा ततो विशेषात प्रभुं पूजयामास । राज्ञी समुत्पन्नवैराग्या श्रीवीरपाघे संयममादाय क्रमेण सौधर्मे देवत्वेनोत्पन्ना । देवाधिदेवस्य पूजा . कुर्वत्यास्तस्याः कोऽपि गन्धाराख्यः श्राडो देवान् सर्वत्र वन्दमानस्तत्रागात् । कियन्तं कालं स गन्धारस्तत्र स्थितः। । अन्यदा तस्य देहे रोगः समुत्पन्नः । तया दास्था शुश्रूषितस्तदा । ततस्तेन श्राद्धेन तस्यै दास्यै गुटिका बढ्योऽर्पिताः । ततः कुब्जिका एकगुटिकाभक्षणेन देवाङ्गनातुल्यदेहाऽभूत् । ततः सा वयं वरमङ्गीकर्तुं ध्यायति । ततः केनचिदवन्याः प्रद्योतनो भूपः प्रोक्तस्तव योग्योऽस्ति । ततो द्वितीयागुटिका भक्षिता । तस्या अधिष्ठायकदेवेन तस्या दास्या Jain EducationGIT For Private & Personel Use Only Silww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy