SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वर वृत्तिः॥ ॥१७५॥ अनर्थ्य वस्तु भुक्त्वापि, न मुञ्चत् धृतिमात्मनः । राजर्षिपदमादायो-दायनः शिवमासदत् ॥ १॥ श्रीआर्य तथाहि-एकदा श्रीवीरजिनो राजगृहे समवासार्षीत् । तत्राभयकुमारो धर्म श्रोतुं समागात् । परमं मुनि || सूरीश्वरवीक्ष्याप्राक्षीत्-भगवन् ! कोऽयं यतिः। प्रभुणोक्तम्-अन्तिमो राजर्षिरयमुदायननृपः। अभयोऽवग-अनेन कथं व्रतं चरित्रम्। |श्रीनुदायन गृहीतं कथं मुक्तिं गमिष्यति । प्रभुणोक्तं-श्रृयताम् । सिन्धुदेशालङ्करणे वीतभये पत्तने उदयनो राजा राज्यं करो- राजर्षि चरित्रम्। तिस्म । तस्य चेटकराजपुत्री प्रभावतीनाम्नी पत्नी बभूव । इतस्तत्र वास्तव्यः कुमारनन्दी सुवर्णकारो विषयलोलुपोऽन्यदा देवताहयदर्शनात् प्राह-के भवत्यौ स्तः ताभ्यां प्रोचे-पञ्चशैलद्वीपवासिन्यौ हासाग्रहासाढे देव्यौ स्तः । यदि । तव भोगेच्छाऽस्ति तदा तत्रागत्यावयोः पतिर्भव इत्युक्त्वा ते गते । सोऽपि स्वर्णकारस्तयोर्दैव्योः पतिर्भवामीति वाञ्छन् केनापि नरेण समं तरीमारुह्य नीरधौ चचाल । वर्त्मनि स्वर्णकारः प्राह-कथं हासाप्रहासयोर्योगो भवति । तेन सांयात्रिकेणोक्तम्-अग्रे दृश्यमानगिरेरुपकण्ठे तरुर्महानस्ति । तस्याधो यानपात्रे गच्छति यः साहसी तस्य तरोः शाखां हस्ताभ्यां गृह्णाति, तत्र वृक्षे स्थितश्च निशि विश्रान्तानां भारण्डपक्षिणां चरणे विलगति च । स तत्र गतो मृत्वा तयोः पतिर्भवति । इति तस्य नागिलस्य (सांयात्रिकस्य) वचः श्रुत्वा स स्वर्णकारस्तथाकृत्वा तयोः पतिय॑न्तरोऽभूत ॥१७५॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy