SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ त्रासन्नगृहे गत्वाऽऽहारमानयत । गुरुणोक्तो लज्जन् कस्यापि महेभ्यस्य गृहछंडिके प्रविष्टः । श्रेष्ठिनोक्तं-यते! छंडिके न ! प्रविश्यते । साधुः प्राह-लक्ष्मीः छंडिकेऽपि प्रविष्टा वरा । श्रेष्ठी हृष्टः द्वात्रिंशन् मोदकान् ददौ । हृष्टो यतिर्गुरू-101 पान्तेऽदर्शयत् । गुरुणोक्तं साधुभ्यो मोदकान् ददत । सोऽवग्-एषां प्रस्तरा दीयन्ते यैरेवमहं विगोपितः । गुरुभिरूचे-यूयं राजव्यापारे स्थिताः पूर्व सेवकेभ्यो दत्वैव भोक्तारः । अधुनाऽपि तथा कुवन्तु । ततः साधुभ्यो मोदकान् द्वात्रिंशद् दत्वा पुनर्लाभोदयकर्मयोगात् परमान्नं विहत्यागात् पारणं चक्रे । ततो लज्जा मुक्त्वा सदा । विहृत्यायाति सोमदेवो भिक्षामानीय पारणं चकार । श्रीआयरक्षितसूरयो भव्यजीवान् प्रबोधयामासुः । अन्येद्युः श्रीआर्यरक्षितसूरयः पाटलीपुरपत्तने ययुः । तत्र चन्द्रनरेश्वरो धर्म श्रोतुमाययौ । तत्र श्रीगुरुभिरिति धर्मोपदेशो ददे । “निर्दन्तः करटी हयो गतजवश्चन्द्रं विना शर्वरी, निर्गन्धं कुसुमं सरो गतजलं छायाविहीनस्तरुः । रूपं निर्लवणं सुतो गतगुणश्चारित्रहीनो यति-निर्देवं भुवनं न राजति यथा धर्म विना पौरुषम् ॥१॥” इत्यादि धर्मोपदेशमाकर्ण्य राजा जिनधर्म प्रपेदे । श्रीआर्यरक्षितसूरिप्रभृतिसूरयः क्रमादवसरे स्वर्गलोकं ययुः । श्रीआरक्षितस्य दीक्षाग्रहणसम्बन्धो वज्रस्वामिवृत्त यः । इतिश्रीआर्यरक्षितसूरिसम्बन्धः ॥३७॥ Jain Educat i onal For Private & Personel Use Only IAN T ww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy