________________
॥ श्रीभरतश्वर वृत्तिः ॥
॥ १७४ ॥
Jain Education
| सोमदेवोऽपि जगाद चाहमपि साधुमेनं वहामि । तदा गुरुभिः प्रोक्तं - मृतं साधुं वहतां साधूनां देवा विघ्नं कुर्वन्ति यदि न क्षुभ्यति साधुस्तत्र तदा तस्य देवा अपि प्रसन्ना भवन्ति । तदा सोमदेवो जगौ - अहमेनं साधुं वहामि । | ममानन्तं पुण्यं भवति । गुरवो जगुः । अत्र विघ्नं बालकादिकृतं बहु समुत्पद्यते तव साधुं वहतः । सोमदेवोऽवग | | मया सर्व उपसर्गः सहिष्यते । तदा सोमदेवः साहसीभूय साधुमुत्पाटयितुं लग्नो यदा तदा श्रीगुरुभिः शिक्षिता | बालकास्तत्राभ्येत्याकस्मात्तस्य साधोः सोमदेवस्य धौतिकं कर्षयामासुः । तदा गुरुभिः प्रोक्तं-भो साधव एकं वस्त्र| मानयत आनयत । तदा सोमदेवो जगौ - जं दट्ठबं तं तु दट्ठमेव । एवं जल्पन्तं सोमदेवं चोलपट्टं परिधापयामासुः | ततः सोमदेवः सत्यसाधुरभूत् । तस्य साधोरभिसंस्कारे कृते गुरवो यदा देवगृहे देवान्नन्तुं आगताः तदा सर्वान् साधून् | सोमदेवं च श्राद्धा वन्दन्तेस्म । सोमदेवो लज्जमानो भिक्षार्थं श्राद्धगृहे न गच्छति । एकदा श्रीगुरुभिरासन्ने ग्रामे गच्छद्भिः प्रोक्तं - शुद्धमन्नमानीय भक्षितव्यं सोमदेवो भिक्षां विना तिष्ठतु । श्रीगुरुषु ग्रामं गतेषु साधुभिर्गुरूक्तं कृतम् । एवं द्वितीये दिने गते तृतीये दिने गुरुरागात् । सोमदेवेन तद् भक्तस्वरूपं प्रोचे । ततो गुरुः प्राह भो-शिष्या | अस्मत्पितुः कथं भक्तं नानीतम् । ततः पूर्वशक्षिता जगुः । किमयं स्वयं विहर्तुं न याति । ततो गुरुभिरुक्तं - सोमदेवाग्रे यूयम
For Private & Personal Use Only
श्रीआयरक्षित
सूरीश्वर - कथानकम् ।
॥ १७४ ॥
www.jainelibrary.org