SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ कीदृग्रूपोऽस्ति ? । ततो गुरुभिः प्रकारेणोक्तम्-अहमेवाऽस्मि, त्वया सम्बन्धः कस्याप्यो न प्रोक्तव्यः । ततो गुरुणा सार्ध शालायां गतो मनकः । ततो मनको गुरुपार्श्वे दीक्षां जग्राह । श्रीशय्यंभवसूरिभिर्मनकस्याल्पमायुर्ज्ञात्वा || सिद्धान्तमध्यात् श्रीदशवैकालिकं कर्षयित्वा मनकस्य पठनाय ददे । मनकेन षड्मासे दशवैकालिकं पठितम् । लघु-Idi रपि वैराग्यवासिताशयोऽभूत् गुरूपदेशात् । क्रमादायुषोऽन्त्यवेलायां मनकस्याराधना गुरुभिः कारिता । शुभध्यान|परायणो मनको मृत्वा स्वर्ग जगाम । ततोऽग्निदाहं तस्य मनकस्य दत्वा श्रीसङ्घो गुरुपार्श्वे धर्मोपदेशं श्रोतुमाजगाम । गुरुभिरुपदेशं ददद्भिरश्रुपातः कृतः। उपदेशानन्तरं श्रीसङ्घनाश्रुपातस्वरूपं पृष्टम् । ततो गुरुभिरुक्तं-मनको मम पुत्रः। ततः श्रीयशोभद्रसरिप्रभृतिसाधुभिरुक्तं-किं न ज्ञापितमदः श्रीपूज्यपादैः ? गुरवः प्रोचुः--यद्यहं स्वपुत्रसम्बन्धमकथयिष्यं तदाऽसौ मनकश्चारित्रं नाराधयिष्यत् । वैयावृत्त्यं विना न कर्मक्षयो भवति । ततः श्रीशय्यभवसूरिः श्रीदशवकालिकं पश्चाद्यावत्सिद्धान्तमध्ये क्षिपति तावच्छीसंघः श्रीयशोभद्रसरयोIsपि जगुः-भगवन्नयं श्रीदशवकालिकग्रन्थः पृथक् सिद्धान्तात्तिष्ठतु साधूनामुपकाराय । अयं ग्रन्थः सिद्धान्तस्य-ना सारभूतोऽस्ति । ततः शय्यंभवसूरिभिस्तथा दशवैकालिकग्रन्थः स्थापितः । साधवोऽधुना पठन्ति च । उक्तं च For Private JanEducal Kilrwwjainelibrary.org Personal Use Only
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy