________________
मशुद्धमपि शुद्धबुद्ध्या गृह्णन्तिस्म साधवः । सेहे स्वयं सुहस्ती तु, सदोषं तद्विदन्नपि । सूनोरिव स्वशिष्यस्य, को। न रागेण लिप्यते ॥ १॥ अन्येद्युः श्रीआर्यमहागिरिः श्रीसुहस्तिसूरि तथाविधाहारं गृह्णन्तं श्रुत्वा तत्रोवाच । किं । राजपिण्डं सदोषं जानन्नपि त्वं गृह्णासि । गृह्णानान् साधनप्यनुजानासि । सत्रागारे तु साधूनामाहारं गृहीतुं न कल्पते। यतः-" आहाकम्मुद्देसिय पूईयकम्मे य मीसजाए य ठवणा पाहुडिआए. १ । सुहस्त्यूचे-प्रभो भक्तिभासुरा अमी
ददते दानम् । अस्माभिरीदृग्दानविश्राणनविषये किमप्युक्तं नास्ति । स्वभावेन परार्थमत्र निष्पाद्यमानमस्ति तेनात्र । N को दोषः। नणु मुणिणा जं न कयं, न कारियं नाणुमोइअं तंसि, गिहिणा कडमाईयउ, तिगरणसुद्धस्स को दोसो ॥१॥
न कारितं कृतमनुमतमस्माभिरतोऽत्र दाने को दोषः महागिरिगुरुः स्माह । सच्चं तहवि मुणतो गिन्हंतो वुढए । पसंगं से । निबंधसो य गिडो, न मुयइ सजीयपि बहु पच्छा ॥१॥ महागिरिगुरुः स्माह, शान्तं पापं किमात्थ भोः। अनेन वचसा श्वभ्र-पातो भवति देहिनाम् ॥ २॥ पृथग् जनानां साधूनां, सामाचार्येव सङ्गतिः। सामाचारी विभेदेन, दुर्गतिर्जायते खलु ॥ ३ ॥ भयेन डिम्भवटेप-मानो मानयितुं गुरून् । पादावादाय शिरसा, जगावार्यसुहस्त्यथ ॥१॥ हहा महापराधोऽयं मयैको विदधे विभो ।। क्षन्तव्यं भवताऽद्यैक-वारं कुर्वे इदं न तु ॥२॥l
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org