SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ तोऽसि स्वक्रीडावनं दर्शयितुम् । त्वं तु सत्त्ववान् ज्ञातोऽसि । तव तपसाऽहं हृष्टाऽस्मि, प्राच्यैः पूर्वकृतकर्मभिस्त्वदीयैस्तुष्टारम्यहं तुभ्यम् । प्राच्यकृतकर्मसम्बन्धः श्रूयताम् । यथाहि-पुरा पुष्पपुरे निर्धनः कोऽपि जनस्तिष्ठतिस्म, महोत्सवेऽन्येचुर्नागरान् कौमुदीमहोत्सवकरणपरान् वीक्ष्याचिन्तयत् । मन्दभाग्योऽतिनिर्लज्जः, पात्रं निन्दति कर्म-|| णाम् । मया(म)-समः समस्तेऽपि, नास्त्यन्यः कोऽपि भूतले ॥१॥ एवं विधेऽप्युत्सवे जायमाने मया न लब्धं । मनागपि भैक्ष्यं, प्राणास्तु न मां मुञ्चन्ति । इह मया यद् भैक्ष्यं न लब्धं तत्पूर्वकर्मविलसितम् । समानेऽपि मनु यत्वे, विशेषोऽयमभूञ्च यत् । तदत्राहमहो मन्ये, पुण्यापुण्ये निबन्धनम् ॥ १ ॥ तन्मया यत् कचित् किंचि-न्न कृतं सुकृतं पुरा । दुःखपात्रं तदत्राह-मभवं विभवं विना ॥२॥ ततोऽहं क्वचिद्धैरवे गत्वाऽहं देहत्यागं करिष्यामि । यथा दुःखभाजनं भवान्तरे न भवामि । पर्यालोच्येति भैरवे भृगुपातं कर्तुं गतः । अभीष्टदेवतायाश्च, नमस्कारं चकार सः । झम्पापातं चिकीर्षुश्च, दिशो व्यालोकयन्नयम् । शमं मूर्तमिवाशोक-तले भुनिमुदैक्षत ॥१॥ N दृष्ट्वा च तं पञ्चाङ्गप्रणिपातेन प्रणनाम । ध्यानान्तेऽथ मुनीन्द्रोऽपि, ज्ञानत्रयमयः स्वयम् । ज्ञात्वोपकारमूचे तं, सुधामधु किरागिरा ॥१॥ भो वत्स ! कुतस्त्वं समागाः उवाच सोऽपि निर्धनः-मम दारिद्यमद्यापि न गतं, युष्मदर्शनेन चाधुनाऽहं Jain Educatio n For Private 3 Personal Use Only
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy