________________
॥ श्रीभरतेश्वर वृत्तिः ॥
॥ १६४ ॥
तदा मूर्छामापम् । अग्रे गच्छन् मूर्छामुषितचैतन्य - स्तामथानुव्रजंस्तदा । कोऽहं किमर्थं कुत्रास्मी - त्येवं न प्रतिपन्न - वान् ॥१॥ क्षणेन सचेतनीभूयाहं स्वं सैकते स्थितमपश्यम् । न तत्पुरं न सा गङ्गा, न सा कन्या न सा रसा । आक| स्मिकमिदं जज्ञे, किं विचारपथातिगम् ॥ १ ॥ किमिन्द्रजालं किं वा स्वप्नं किं वा चैतन्यविप्लवः, विचिन्त्येति क्षणं समुत्थाय परिभ्रमन् कल्पद्रुमाणां काननमेकमपश्यम् । तमारामं विलोकयन्नहमेकं चित्रकारकं प्रासादमुचैः सप्तभूममपश्यम् । यावदहं तस्य षष्ठयां भुवि गतस्तावदपूर्व गीतध्वनिमश्रौषम् । ततोऽग्रतो गत्वा द्वारदेशे विलम्बितोऽहं कयाचिद्वे| त्रधारिण्यागत्य भाषितः । अहं श्रीशारदादेव्या, त्वदाकारणहेतवे । शब्दविद्या प्रतीहारी, प्रेषिता तत्पुरो भव ॥ १ ॥ | ततस्तया तत्र नीतः । शारदादेवीमपश्यम् । चारुनारीप्रचारेण नतेनाप्सरसां पुरः । प्रेक्षाकौतूहले नोच्चैः, क्षणमाक्षिप्तचक्षुषीम् ॥ २ ॥ तर्कसाहित्यविद्याभ्यां वामदक्षिणपार्श्वयोः । वालव्यजनपाणिभ्यां वीज्यमानां मुहुर्मुहु| ॥ ३ ॥ अथाहं तस्यै देव्यै नमोऽकार्षम् । ततोऽहं वाग्देव्या स्वपादपीठे निवेशितः । हारहूरामधुरया वाण्या भाषितश्चेति । मा वत्स ! विस्मयायत्तं, कार्षीश्चित्तं नृपाङ्गज ! । ततो विनयं कुर्वाणं राजपुत्रं दृष्ट्वा वाग्देवी जगौ - गङ्गाकन्यया मया तव सम्यगाराधनाभाजः स्तवनपूजनैः सत्त्वपरीक्षणं कृतम् । किंच स्वां प्रतीहारीं प्रेष्य त्वामिहानी
Jain Education International
For Private & Personal Use Only
श्रीयुगबाहुचरित्रम् |
॥ १६४ ॥
www.jainelibrary.org