________________
उपशमशब्दस्य कोऽर्थ इति ध्यायन् पुनर्जज्ञौ, उपशमः क्रोधाद्युपशान्तिः, एवं ध्यात्वोपशम आश्रितस्तेन चौरेण । विवेकस्य कोऽर्थः ? इति ध्यायता विवेकार्थस्तेन ज्ञात इति कृत्याकृत्ययोविवेकः क्रियते । ततः कृत्यस्याङ्गीकारोऽकृत्यस्य, त्याग इति विवेकः । ततो विवेक आश्रितस्तेन । संवरः पञ्चेन्द्रियाणां क्रियते, पञ्चेद्रियाणां प्रसरस्य निरोधः, इति संवरस्तेनाश्रितः । इति त्रिपदी ध्यायन् साईदिनद्वयं कायोत्सर्गे चौरः स्थितः । रुधिरगन्धेन समागताभिः शूचिमुखीभिः कीटिकाभिः सर्व शरीरं तस्य चालनीवत् कृतम् । तेन तथा कीटिकाविहितवेदनाऽधि|| सहिता, यथा साईदिनयान्ते चिलातीपुत्रेण स्वर्गपदवी प्राप्ता । उक्तं च "जो तिहिं जएहिं सम्मं समभि. गओ संजमं समारूढो । उवसमविवेगसंवर-चिलाइपुत्तं नमसामि॥१॥ अहिसरीया पाएहिं, सोणियगंधेण जस्स कीडीओ। खायंति उत्तमंगं, तं दुक्करकारयं वंदे ॥२॥ धीरो चिलाइपुत्तो, मूइंगलिआहि चालिणिब्ध कओ । जो तहवि खज्जमाणो, पडिवन्नो उत्तमं अढें ॥ ३ ॥ अड्ढाइज्जेहिं राइदिएहिं, पत्तं चिलाइपुत्तेण । देविंदामरभवणं, अच्छरगणसंकुलं रम्मं ॥ ४ ॥ ॥ इति चिलातीपुत्रकथा समाप्ता ॥ ३४ ॥
तीव्रण तपसा कर्म, कृतं दुष्टमपि स्फुटम् । युगबाहोरिवोपैति, क्षयं शीघ्रं शरीरिणः ॥१॥
Jain Educatio national
lall
For Private Personal Use Only
www.jainelibrary.org