________________
द्विजोऽभूत, मोहनी वल्लभा प्राणेभ्योऽप्यतिवल्लभाऽऽसीत् । अन्येयुः धर्मोपदेशं श्रुत्वा सुगुरोः पार्श्वे व्रतं ललतुः ।। निविडेन निगडेनेव, रागेण तयोर्बडयोस्तत्रापि प्रीतिः सर्वथाऽन्योऽन्यं नात्रुटत् । मोहनी मूढात्माऽन्यदा जातिमदं । मनाग् चक्रे । तत्कर्म अनालोच्य मोहनी गुरोरग्रे क्रमादिवि गता । द्विजोऽपि मृतः स्वर्गे गतः । ततो दिवश्च्युत्वाऽऽयुःक्षये इलावर्द्धनपुरे श्रेष्ठिपुत्रोऽभूदेवः सोऽहमिलातीपुत्रः। मोहन्यपि स्वर्गाच्युत्वा जातिमदकरणालंखपुण्यभूत्।। तत्र पूर्वभवसम्बन्धिना मोहेनास्मिन् भवे मम तस्यामभूत् स्नेहः । तच्छ्रुत्वा वैराग्यवासिता राजराज्ञीनटात्मजादयो || धर्म प्रपेदिरे । ततः शुक्लध्यानात् प्राप्य केवलज्ञानं मुक्तिं ययुः । इति इलातीपुत्रकथा समाप्ता ॥ ३३ ॥ कृतपापोऽपि संसारान्, मुच्यते भूरिकर्मभिः । चिलातीपुत्रवत् स्वर्गा-दिसुखैर्बियते पुनः ॥१॥
तथाहि--क्षितिप्रतिष्ठितपुरे ज्ञमन्यो यज्ञदेवाह्वो द्विजो जिनमतनिन्दा दीर्घसंसारदायिनी करोतिस्म । खं पण्डितमन्यो हिजोऽन्यदा वादाय केनचित् क्षुल्लकेनाहुतः। ततस्तेन द्विजेनोक्तं यो मां जयति तस्याहं शिष्यो भवामि । ततः क्षुल्लकेन निग्रहस्थानं नीतः क्षणादीक्षा ग्राहितो हिजः । अथान्यदा शासनदेवी हिजं प्रति प्राहयथा तराणं विना चक्षष्मानपि न पश्यति, तथा जीवो ज्ञानवानपि शुद्धं चारित्रं विना मुक्ति न पश्यति, यतिवत् ।
Jain Educational
For Private & Personel Use Only
T
ww.jainelibrary.org