________________
मवगणय्य मुत्कलाप्य मिलितुं लंखकपाटकेडगादिलातीपुत्रः । तदा लंखकोऽवग-यदि त्वमस्मदीयां नृत्यकलां | शिक्षिष्यसे । तदा तुभ्यमियं कन्या दास्यते । ततः शिक्षितुं स लग्नः कामार्थी । " यतः कामाशुगैः स्वान्त-कुम्भे| का
जर्जरिते सति । स्तोकमप्युपदेशाम्भः, क्षिप्तं सन्तिष्ठते कथम् ॥ १॥ प्राणानपि विमुञ्चन्ते, स्त्रीशस्त्रीदीर्ण| वक्षसः । मास्तृष्णाविगानस्य, त्यागे तु किमदुष्करम् ॥ २ ॥" प्रज्ञाप्रकर्षवशान्नृत्यकलासु कोविदोऽभूदिलाती-1 Kalपुत्रः । ततो लंखकोऽवक्-खविज्ञानं प्रकाशय त्वं द्रव्यमर्जय। ततो महामहोत्सवेन कन्येयं तुभ्यं दास्यते । ततो
वेनातटपुरे लंखकादियुतः इलातीपुत्रो गत्वा महीपालं भूपं व्यजिज्ञपत्-स्वामिन् ! अद्य वयं नाटकं दर्शयिष्यामः ।। नाटकं दर्शय त्वमित्युक्ते भूपेन इलातीपुत्रः प्रेक्षणं नानाभिनयबन्धुरं तथा चके यथा लोकाः सर्वेऽत्यन्तं चमकृताः । तदानी राजा लंखकसुतां वीक्ष्य मोहितो हर्तुकामोऽभत् । ततो राजा जगौ-भो इलातीपुत्र! वंशोपरि सुप्तस्तन्तन् बद्ध्वा तेषु विलमो नृत्यं कुरु । ततस्तथा नृत्ये कृते तेन राजाऽवग्-निराधारो भव । निराधारे व्योम्नि स्थिते तस्मिन् राजा ध्यौ-असौ तु न मृतः कथं लंखकपुनी मम भविष्यति । एवं द्विनिवारं स भूपेन नृत्यं कारितः। चतुर्थे वारके वंशोपरि स्थितो राजानं लंखकमुतासक्तमनसं ज्ञात्वा इलातीपुत्रो दध्यौ-अहो विषयवैषम्य, रक्तोऽयं
Jain Education Inc
onal
For Private & Personel Use Only
Mallw.jainelibrary.org