________________
॥ श्रीभरते- श्वर वृत्तिः॥
श्रीहलातीपुत्रस्थ चरित्रम्।
वीक्ष्य वयरया इलातीपुत्रं प्रति जगुः-तव पिता त्वां विना अधृतिं करिष्यतीति । स्वगृहे गम्यते । तैरिलातीपुत्रः स्वगृहे नीतः। तत्र शयने सुप्तः क्षणमपि समाधि न लभते । तं तथाऽवस्थं पुत्रं वीक्ष्य पिताऽवग्-भो वत्स ! तब किं मन ईदृशं दृश्यते । तब केनापराधः कृतः । त्वत्तुल्योऽपरः कोऽपि विचारवान्नास्ति । ततः पुत्रे मौनं श्रिते | वयस्याः प्रोचुः । अस्य लंखकनटस्य कन्यायां परिणेतुं मनोऽस्ति । ततः पिताऽवग्-भो पुत्र ! त्वं कुलीनोऽकुलीना| मिमां किं परिणेतुमीहसे । इति पितृवचः श्रुत्वा इलातीपत्रो बभाषे । तात ! जानाम्यहं सर्व सन्मार्गप्रवर्तनादि परं किं क्रियते मनो मदीयमस्यामेव मनमस्ति । तस्यां लंखकन्यायां रक्तं पुत्रवचो मत्वा श्रेष्ठी दध्यौ-- मयैवैतत् कृतमविचारितं पुत्रस्य कुसङ्गतिकरणात् । अथ वारितुं न शक्यते । मया निषिद्धः सन् कदाचिन म्रियेत तदा मम का गतिः । इतो व्याघ्र इतस्तटीति न्यायः । यदि तामसौ न परिणेष्यति तदा मृत एव इत्यादि ध्यात्वा श्रेष्ठीलखकं प्रति जगौ--मम सूनवे स्वसुतां त्वं देहि । ततो लंखकोऽभाषिष्ट स्पष्टं-त्वत्सूनोर्यदि वाञ्छा स्यात्ततोऽस्माकं मिलत्वसौ । ततः श्रेष्ठी खिन्नोऽपि प्राह सुताने-वत्स! भवत्वियं ते लंखपुत्री । पित्रोदितं श्रुत्वा दध्याविति इलातीसुतः । तातेन मत्कृते विरुद्धमपि वाञ्छितं प्रतिपन्नम्, अहं तु तां विना न क्षमो जीवितं धर्तु, विचिन्त्यैवं गुरुजनोपदेश
M
॥१५८॥
Jain Education
National
For Private & Personel Use Only
Jww.jainelibrary.org