SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ पूर्वभवे पुनर्न श्रदधे । तथाहि-लक्ष्मीपुरे एते त्रयोऽपि सोदराः सस्नेहा दारिद्रभाजोऽभूवन् । त्रयोऽपि नित्यं काष्ठानि । कष्टेन वनादानीय विक्रीय कुटुम्बं पोषयन्तिस्म । अन्येषुस्ते सशम्बलाः काष्ठानयनार्थ वने ययुः । मध्यान्हे ते ना यावहोक्तमुपविशन्ति, तावन्मुनीन्द्रः शान्तात्मा मासक्षपणपारणार्थ तत्रागतः। तं तादृशं यतिमागतं दृष्ट्रा ते प्रोत्थाय प्रमुदिता बहुशम्बलमहमहमिकया विश्राणयन्तिस्म साधव तस्मै । तेऽथ तस्मिन् साधौ गते पश्चात्तापमिति चक्रिरे। ||अत्रायातो मुधाऽस्माकं शम्बलं लात्वा गतः। न दायादो न गोत्रजः । अथवा साधोरस्य किं दूषणम् । वयमेव मूढा || al यतोऽविमृश्यैव दत्तं शम्बलम् । पश्चात्तापपरास्ते स्वसदनं ययुः । दानस्थानुभावेन तस्मिन् दिने किञ्चिदन्न । सुपात्राय दत्वा पश्चात्तापं चक्रः । तेन पुण्येनाल्पढिव्यन्तरत्वं प्राप्य तस्माच्च्यतास्त्रयोऽपि भ्रातरो भवदीया अभवन् । तादृग्दानप्रभावेणामीषां लक्ष्मीदर्शनप्रदाऽभूत् । योऽन्योऽपि साधुभ्यो दानं दत्वा पश्चात्तापं करोति स दानफलं न प्राप्नोति । उक्तं च-" दत्वा दानं ये मुनीन्द्रेषु पूर्व, पश्चात्तापं कुर्वते पुण्यहीनाः । भाग्याल्लब्ध्वा यानपात्रं प्रधान, | झम्पापातं तन्वते ते समुद्रे ॥ १॥ दानस्य पुण्यं बहुभाग्यशाली, संप्रापयत्येव बहुस्थिरत्वम् । न भाग्यहीनाः खलु येन कुक्षौ, न पायसं तिष्ठति कुर्कुरस्य ॥ २ ॥ पश्चात्तापो न तत्कार्यों, दत्ते दाने मनीषिभिः । किन्तु पुण्य in Eduentan H For Private & Personel Use Only Maw.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy