________________
॥ श्रीभरतेश्वर वृत्तिः ॥
॥ १५७ ॥
द्रुमो भाव- जलेन परिसिध्यते ॥ ३ ॥ " अथ सुभद्रा शालिभद्रभगिन्यपि प्राह भगवन् ! मया केन कर्मणा ॐ मृद् वोढा । गुरवः प्रोचुः - स्वीयं भवं शृणु । यदा धन्यः पूर्वभवे वत्सपालकोऽभूत्, तदा यूयं चतस्रः प्रातिवे| मिक्यो जाताः । गोपेन मार्गिते भक्ष्ये तदा प्रथमया दुग्धं ददे, द्वितीयया तन्दुलाश्च ददिरे, खंडा तृतीयया ददे, आज्यं वर्ये चतुर्थ्यां ददे । ताभिरप्यर्जितं पुण्यं दानेन । तदा सुभद्रे ! यत्त्वया मृद्दहने कर्म्म बद्धं तच्छृणु । तथाहि-कलहं कुर्वाणा दासी काचिद्गोमयं वहन्ती त्वया हक्कितेति-- रे दासि भारमेवोद्वहसि । एवंविधया गिरा सा दासी दूनाऽजनि । येन त्वया दानं करुणया गोपालाय दुःस्थाय व्यतारि, तेन शालिभद्रस्वसा त्वमभूः । येन त्वया तस्या दास्या मृत्तिकां वहेति शापो व्यतारि पूर्वभवे, ततोऽस्मिन् भवे त्वया मृत्तिका व्यूढा । इत्येवं संशयं भित्त्वा धन्यः | सपरिवारो धर्ममङ्गीकृत्य स्वगृहं ययौ । ततो दिने दिनेऽधिकाधिकां लक्ष्मीं प्राप्नुवन् राजमान्योऽभूत् । अष्टाभिः प्रियाभिः समं दोगन्दुकदेव इव भोगान् भुञ्जानः सुखी बभूव धन्यः । धन्यो यथा दीक्षां ललौ, यथा तपःप्रभृति पुण्यं कृत्वा अनुत्तरविमाने गतः । तत्सर्वे शालिभद्रकथानकाज्ज्ञेयम् । इति दानपुण्योपरि धन्यकथानकं समाप्तम् ॥ ३२ ॥ अनित्यत्वादिकां शुद्धां, भावनां स्मरतो हृदि । इलातीतनयस्येव, पुंसः स्यात् केवली मुनिः ॥ १ ॥
Jain Education International
For Private & Personal Use Only
श्रीधन्य
चरित्रम् ।
॥ १५७ ॥
www.jainelibrary.org